________________
१९४
योगबार्तिकम् । तेषां प्रतिक्षणपरिणामित्वं दर्शयति । एवं धर्मलक्षणेति । तदुक्तं मन्वादो।
घोरेस्मिन्हतसंसारे नित्यं सततधातिनि । कदलीस्तम्भनिःसारे संसारे सारमार्गणम् ॥ यः करोति स संमूढो जलबुद्धदसंनिभे।
इति । गुणवृत्तं गुणानां सत्त्वादीनां व्यापारः स्वकार्येधादिपरि. णामः क्षणमपि शन्यं नावतिष्ठते । प्रतितणं परिणामं जनयतीत्यर्थः । ननु व्यापाराभावदशायामपरिणामित्वं स्यात तत्राह। चलं च गुणत्तिमिति । चलमिति भावप्रधानो निर्देशः । चाञ्चल्यं हि गुणानां स्वभाव इत्यर्थः । ननु प्रतिक्षणं चाञ्चल्ये प्रमाणं किमित्याकाकायामाह।गुणस्वाभाव्यं विति। राजो हि गुणानामुपकरणानां भृत्यादीनां स्वाम्यर्थ प्रतिक्षणमेव व्यापारो दृश्यते अतो गुणस्वभावतैव पुरुषगुणानामपि सत्त्वादीनां प्रतिक्षणप्रवृत्ती प्रमाणमुक्तं पूर्वाचारित्यर्थः । गुणत्वं च परस्यैव भोगापवर्गहेतुत्वमिति । चित्तदृष्टान्ते परिणामत्रयं व्याख्याय दान्तिपि तयाख्यातुमारभते । एतेनेति । धर्मर्मिभेदादिति। धर्मर्मिभेदमाश्रित्येत्यर्थः । तत्र पृथिव्या. दीनां र्मिणां घटादिर्धर्मपरिणामः घटादीनां धर्माणां वर्तमानातीतते लतणपरिणामः वर्तमानादिलक्षणानां च त्रयाणामपि बाल्ययौवनादिरव. स्थापरिणाम इति। ननु त्रयोपि कथं परिणामा भूतेन्द्रियेषूच्यन्ते तेषु र्मिषु धर्ममात्रपरिणामादिति, तत्राह । परमार्थतस्त्विति । एक एव परिणामः त्रयोपिर्धामपरिणाम एव यतोर्मिस्वरूप एव धर्माता र्मिपरिणाम एवैष लतणादिपरिणामो धर्मादेरित्यवान्तरमेव विभज्यतइत्यर्थः । इदानी प्रतितणपरिणामे क्षणिकतादिप्रसङमपाकतुं परिणामत्रयं क्रमेण परीक्षणीयम् । तत्रादौ धर्मपरिणामः परीक्ष्यते। तत्र धर्मस्येत्यादिना । तत्र तेषु परिणामेषु मध्ये र्मिणि सत एव धर्मस्यातीतादावस्थासु र्मिणो भावान्यथात्वं धर्मान्यथात्वमेव भवति न द्रव्यान्यथात्वं स्वरूपान्यथात्वे हि प्रतिक्षणं परिणामेन क्षणिकतापत्त्या प्रत्यभिज्ञानुपपत्तिरिति भावः । सुवर्णस्य भावान्यथात्वं भाजनादिरूपधर्मापाये कटकादिधर्माभिव्यक्तिरिति, प्रत्यभिः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org