________________
योगवार्तिकम् ।
१९३
नकालेपि व्युत्थाननिरोधयेः लक्षणपरिणामः क्रमेण दर्शयति । एवं पुनर्व्यु - त्थानमुपसंपद्यमानमिति । उपसंपद्यमानं जायमानं तच्च व्यक्त्यन्तरम् अतीतत्र्यक्तेरनुत्पादस्य वक्ष्यमाणत्वात् । अन्यत्सर्वं पूर्ववत् । एवं पुनर्निरोध इति । अत्र एवमित्यनेन तथा व्युत्थानमित्यादिवाक्यक्ता निरोधस्य तृतीयाध्वप्रक्रिया निर्दिष्टा तो न निरोधतृतीयावस्या कथनाभावशून्यतेति । इदं च व्यु स्थाननिरोधपरिणामचक्रम् अपवर्गपर्यन्तमेवेति संवेपेणाह । एवं पुनर्व्य त्यानमिति । व्युत्थानादिरित्यर्थः । चितधर्मस्य लत्तणपरिणामं प्रदर्श्य तल्लक्षणस्यावस्था परिणामं तस्य प्रशान्तवाहिता संस्कारादिति सूत्रे व्याख्यातं दर्शयति । तथा अवस्थापरिणाम इति । उच्यतइति शेषः । संस्कारयोर्बलवत्त्वदुर्बलत्वे च घटस्य नवपुराणताधित् वृद्धिहास उत्पत्तिविनाशरूपत्वे लक्षणपरिणामाद्वेदानुपपत्तेः । लक्षणस्यैव नत्रपुराण त्यादिना Saस्थापरिणाम इति वक्ष्यमाणाच्च । ननु द्रव्यस्यैव वृद्धिक्षयो दृष्टा न गुणस्येति चेत्र । रूपादीनामपि वृद्धिहासानुभवात् रूपभेदकल्पने च गौरवात् तदेव रूपमिदानीं प्रद्धमिति प्रत्यभिज्ञानुपपत्तेश्चेति । तस्मासंस्कारस्यादृष्टादश्वास्ति अवस्थापरिणामः ज्ञानेच्छादिषु चोत्पत्तिविनाशानुभवात् क्षणद्वयमात्र स्थायित्वपि द्वितीयक्षणे वर्त्तमानलक्षणस्यास्थापरिणामो भवति क्षणत्वेनैव परिणामहेतुत्वात् अन्यथा सर्ववस्तनांप्रतिक्षणपरिणामस्य वक्ष्यमाणस्यानुपपत्तेः । एतेनेोत्तरवृत्तिविभुविशेषगुयस्यैव ज्ञानादिनाशकत्वनैकायतादशायामपि ज्ञानस्य बहुक्षणस्यायित्वाश्रावस्था परिणाम संभव इत्यपास्तम् । तदेवं परिणामत्रयं व्याख्याय तेषामाधारव्यवस्थामाह । तत्र धर्मिण इत्यादिना । लक्षणानामप्यवस्थाभिरिति । यद्यपि अवस्थानामपि बाल्यादीनां लक्षणपरिणामोस्ति तथापि यथोक्तक्रमे न काप्यनुपपत्तिः । ननु वर्तमानलक्षणस्य नवपुराणादाव्यापरिणामोस्तु अनागतातीतलक्षणयेोस्तु कीदृशे वस्याभेदः स्यादिति । उच्यते । शीघ्रभविष्यत्ताविलम्बभविष्यत्तादिरूपो विशेषस्तयेोरपि लक्षवायोमुमीयते सत्यादिवदेव गुणत्वेन प्रतिक्षणपरिणामित्यसिरिति। यथेश्वित्तपरिणामः सर्ववस्तूनां परिणाममतिद्विशत् वैराग्याग्निज्वलनाचे
१३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org