________________
१९२
योगवार्तिकम्। तथा च भाष्यकारी वति एवं धर्मलतणावस्थापरिणामैः शन्यं तणमपि । न गुणवृत्तमवतिष्ठते इत्येतेन सर्ववस्तुषु परिणामत्रमिति । सूत्रं व्याचष्टे। एतेति । ननु चित्तपरिणाममात्र पूर्वसूत्रेषक्तं न तु धर्मलक्षणावस्थापरि. णामा इत्याशङ्का तद्विभागप्रदर्शनेनापाकर्त्तमुपक्रमते । तत्र व्युत्थार्नेति । तत्र तेषु मध्ये व्युत्थाननिरोधयोरभिभवप्रादुर्भावावेव चित्ते र्मिणि धर्मपरिणामः प्रथमसूत्रेणैवोक्त इत्यर्थः अवस्थितस्य धर्मिणः पूर्वधर्मतिरो. भावे धर्मान्तरप्रादुर्भावस्यैव धर्मपरिणामत्वमिति भावः । यद्यपि प्रथमसूत्रे व्युत्थाननिरोधसंस्कारयोरेवाभिभवप्रादुर्भावावुक्ती तथापि व्युत्थान निरोधयोरपायोपजनावप्याल्लब्धाविति। धर्मश्च द्रव्यं गुणो वेत्यन्यदेतत् । तथा तेनैव सूत्रेणाभिभवप्रादुर्भावशब्दाभ्यां धर्मस्य लक्षणपरिणामोप्यक्त इत्याह । लक्षणपरिणामश्चेति। लक्षणपरिणामो हि अवस्थितस्य धर्मस्या. नागतादिलक्षणत्यागे वर्तमानादिलक्षणलाभः स चाभिभवप्रादुर्भाववचने. नैव लब्धः । अतीततावर्त्तमानतयोरेवाभिभवप्रादुर्भावत्वादिति भावः । तत्रादौ निरोधरूपस्य धर्मस्य प्रादुर्भावशब्दोक्तं लक्षणपरिणाममुदाहरति । निरोधस्त्रिलक्षण इति । एतस्यैव विवरणं त्रिभिरध्वभिर्युक्त इति क्रमेण संबन्धादध्यतुल्यतयाऽनागतादिभावोध्येत्युच्यते । तथा र्मिणार्धाणां चान्योन्यं व्यावर्त्तनाल्लक्षणशब्देन च तन्ने परिभाषित इति । ततः किमित्यत आह । स खल्विति । स खलु, निरोधः प्रादुर्भावकाले अनागतलक्षणरूपमध्याख्यं हित्वेत्यादिरर्थः । अत्र सत्कार्यापपत्तये धर्मपरिणामत्वोपपादनाय च धर्मत्वमनतिक्रान्त इत्युक्तम् । स्वरूपेणावस्थितस्यैव धर्मस्य रूपान्तरापाये रूपान्तरोत्पत्ती धर्मपरिणामव्यवहारादिति । वर्तमानावस्यामितरावस्थाद्वयाद्विविच्य दर्शयति । यत्रेति । स्वरूपेणार्थक्रियाकारित्वेनाभिक्तिरूपलब्धिरित्यर्थः । स चानागतापेक्षया द्वितीयोध्येति शिष्यव्युत्पादनाय प्रसङ्गादाह । एषोस्येति । असदुत्पादस. द्विनाशयोः प्रतिषेधायाह। न चेति। निरोधक्षण एव निरोधस्य लक्षणपरिणामं दर्शयित्वा व्युत्थानस्यापि दर्शयति । तथा व्युत्थानमिति । सर्व पर्ववत विशेषस्तु वर्तमानतां हित्वातीततां प्राप्त इति तृतीयोध्येति च । एवं व्युत्या.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org