________________
१६१ ।
योगवार्तिकम् । सार्थकायतयोर्धी कथं चित्तम्येत्युच्येते तत्राह । तयोमित्वेनानुगतं चित्तमिति । तयोः सर्वार्थकायतयाः । तथा च धर्मपरिणामपि धर्मद्वारा मिण एव भवतीत्यर्थः । उत्तरसूत्रवत्यमाणपरिणामात व्यावर्त्य प्र. नसूत्रवाक्यार्थभूतं पारणामं ध्याचष्टे । तदिमिति । तदिदमित्यस्य विवरणम् अनुगमित्यन्नं तथा च चित्तं स्वात्मभूतयोः स्वकार्ययोः सर्वार्थते. घायतयोर्धर्मयोरपायकाले उपजन्मकालेचानुगतं यत्समाधीयते स समाधिपरिणाम इत्यर्थः । समाहितवित्तस्य तु परिणामः शेषसूत्रेण वत्यतात भावः । इदानीमङ्गसमाधावेव परिणामान्तरमुक्तपरिणामकालीनमाह ।
ततः पुनः शान्तोदिता तुल्यप्रत्यया
चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥ सतः सर्वार्थतायाः निःशेषतः तयेति शान्तोदिती अतीतोत्पा. मानौ तुल्यप्रत्ययो एकाकारप्रत्ययो चित्तस्यैकायताकालीनः पुनः परिणामो भवति सजातीय एकैकः प्रत्ययो नश्यति अन्योन्य उत्पात इत्येवं परि. णामो भवतीत्यर्थः । तदेतवाचष्टे । समाहिति । समाधारूढस्य चित्तस्येत्यर्थः । अनेन पूर्वसूत्रोक्तचिताढावच्छेदः कृतः तत्र समाधीयमानचित्तस्यैव परिणामस्योक्तत्वादिति पुनस्तयेत्यनेन धारावाहिक एकाग्रता. संतान उक्तः । अवधिमाह । आसमाधीति । भेषो भ्रंशः । तदेवं योगतदड्योः परिणामरूपवैलतण्यं तयोविवेकाय प्रदर्शितम् । अनयैव दिशा व्युत्थानकालीना अपि चित्तपरिणामा व्याख्यातप्रायाः इतः परिणामत्रय. संयमादित्यागामिसूत्रोपाहातसंगत्या सर्वत्र वैराग्याग्निप्रज्वलनाय च चित्तवदेशन्येष्वतिदेशेनैव परिणामान्व्याचष्टे सूत्रकारः । एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ १३ ॥
धर्मलक्षणैरवस्थाभिश्च परिणामा धर्मलक्षणावस्यापरिणामा एते च भाष्ये व्याख्येयाः, एत एव परिणामाः भूतेन्द्रियेषु न तु तत्त्वान्तरपरिखामा इत्यसाधारणाशयेनैवान प्रसस्यादिर्खािल नाकम् । सेन तत्त्वान्तरपरिणामवदेतेपि परिणामाः सर्वएव यथायोग्यं प्रत्याविष्षष्यवगाया।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org