________________
योगवार्तिकम् ।
१८९
इत्यादि वाक्यानि अङ्गाङ्गिनारीत्सर्गिकसहानुष्ठानपराण्येव न मोक्षं प्रति समुच्चयबोधकानीति दिक् ।
तदपि बहिरङ्गं निर्बोजस्य ॥ ८ ॥
निर्बीजयोगस्यासंप्रज्ञातस्य तदपि त्रयं बहिरङ्गमेव विवेकख्यातिपर.वैराग्यद्वारा परंपरया हेतुत्वेनावश्यकत्वाभावादित्यर्थः । एतदेवाह । तदभावे भावादिति । प्रवक्तविदेहप्रकृतिलयानां देवविशेषाणामात्पत्तिकज्ञानवैराग्याणां संयमनैरपेक्ष्येणैव दैनंदिनप्रलयादाव संप्रज्ञातोदयादित्यर्थः । तथा च स्मृतिः ।
योगनिद्रां यदा विष्णुर्जगत्ये कार्णवीकृते ।
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ॥
इति । तदेतत्प्रागुक्तं भवप्रत्ययो विदेहप्रकृतिलयानामिति सूत्रे - येति । ज्ञानोपायप्रसङ्गेन योगाङ्गानि विस्तरतः प्रोक्तानि ददानीमभूतस्य समाधेरङ्गिनाश्च योगयोः स्वरूपभेदावधारणाय तत्तदवस्थागता विशेषा वक्तव्याः । तावतैव तयेोरङ्गाङ्गिनाः प्रयोजनमपि प्रतिपादितं भविष्यति तत्राङ्गसमाधिना योगद्वयस्य विशेषावधारकसूत्रमुत्थापर्यात प्रश्नमुखेन । अथेति । निरोधचित्तक्षणेषु निरोधावस्यचित्तक्षणेषु योगयक्षणेषु इति यावत् । गुणव्यापारस्य स्थिरत्वात् त्रिगुणात्मकस्य चित्तस्य निरोधक्षणेष्वपि परिणामधारा आवश्यकी स च परिणामः कीदृश इति प्रश्नः । व्युत्थाननिरोधसंस्कारयेोरभिभवप्रादुर्भावा
निरोधक्षणचित्तान्दयो निरोधपरिणामः ॥ ९ ॥
असंप्रज्ञातापेक्षया संप्रज्ञातेपि व्युत्थानं तथा च व्युत्थानं निरोधश्च योगद्वयसाधारण एवात्र याझः केवलस्यासंप्रज्ञातरूपस्य निरोधस्यात्र ग्रहणे संप्रज्ञाताख्यनिरोधस्य परिणामाकथनाच्यनतापत्तेः । व्युत्थानसंस्काराभिभवश्च क्रमेण हासो न तु दाहः । निरोधसंस्कारप्रादुर्भावश्च क्रमेण वृद्धिः तौ निरोधपरिणामी निरोधकालीनपरिणामः स च निरोधक्षणचित्तान्वयः प्रत्येकं निरोधक्षणेषु एकस्मिन् स्थिरे चित्ते ऽन्वित इत्यर्थः । एतच्च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org