________________
येोगवार्तिकम्
आसनस्थानविधयो न योगस्य प्रसाधकाः । विलम्बजननाः सर्वे विस्तराः परिकीर्त्तिताः ॥ शिशुपालः सिद्धिमा स्मरणाभ्यासगैौरवात् । इत्यादिना । अत एव जडभरतादीनां समाधिविघ्नतया बाह्यकर्मत्यागोऽपि श्रूयते । अत एव गीतायां संयमाशक्तायैवाभ्यास कर्मादीनि विशेषत उपदिष्टानि ।
૧૯
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव श्रत ऊर्ध्वं न संशयः ॥ अथ चित्तं समाधातुं न शक्रोषि मयि स्थिरम् । आभ्यासयेोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ अभ्यासेप्यसमर्थोसि मत्कर्म परमो भव ।
इत्यादिना । अभ्यासश्चात्रैव सूत्रितः । स्थितौ यन्त्राभ्यास इति । तथा ब्रह्ममीमांसायामपि । समाधिविरोधे सति गुणलेोपेन गुणिन इति न्यायसिद्धा बाह्यकमनपेक्षेाक्ता । अत एव चाग्नीन्धनादानपत्रेति सूत्रेण 'यच्च विद्यां चाविद्यां च यस्तदुदोभयं सह । अविद्यया मृत्युं तीत्वा विद्ययामृतमश्नुते' इति श्रुत्या ज्ञानकर्मणोः साहित्यमुक्तं तत्राङ्गाङ्गिनोहै।त्सर्गिकं सहानुष्ठानमेवाभिप्रेतं न तु मोक्षाख्यफले तयोः तुल्यवत्समु च्चयः । अविद्यया मृत्युं तीर्त्वात्यनेन ज्ञानविप्लवनिवृत्याख्यमृत्युतरणद्वारेण विद्यायामेव मोक्षदायिन्यां कर्मण उपयोगावगमात् ।
न केवलेन येोगेन प्राप्यते परमं पदम् ।
ज्ञानं केवलं सम्यगपवर्गप्रदायकम् ॥
तु
इत्यादिवाक्यै योगशब्दाक्तकर्मनिरपेक्षात् ज्ञानयोगादपि मोतसि: । चङ्गत्वं च पूर्वजन्म त्यनुष्ठितानामपि कर्मणां जडभरतादिषु सिद्धमिति । एतेन ।
उभाभ्यामेव पताभ्यां यथा खे पक्षिणां गतिः ।
तथैव ज्ञानकर्मभ्यां लभते परमं पदम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org