________________
१८६
योगवार्तिकम् । संप्रज्ञातयोगादयं भेदो यदत्र चिन्तारूपतया निःशेषतो ध्येयस्वरूपं न भासते अद्धिनि तु संप्रजाते साक्षात्कारोदये समाध्यविषया अपि विषया भासन्तइति । तथा च साक्षात्कारयुक्तकाय्यकाले मंप्रज्ञातयोगो ऽन्यदा तु समाधिमात्रमिति विभागः । अष्टानां चाङ्गानां फलट्ठयं संप्रज्ञातयोगस्तद्वाराऽसंप्रजातयोगश्चेति । ध्यानादित्रयस्य परिभाषासूत्रम् ।
चयमेकच संयमः ॥ ४ ॥
अस्मित्व पादे प्रोक्ततया त्रयशब्देन धारणादित्रयमेव लभ्यते । भाष्यं सुगमम् । धारणाध्यानसमाधीनां मिलितानां तत्रतत्र सूत्रे ऽनया संजया यहणं भवति । तेषु च प्रातिस्विकरूपैस्त्रयाणामुच्चारणे यन्य. बाहुल्यं स्यादित्याशयेन तन्त्रान्तासिद्धसंजाप्रतिपादमिदं सूत्रम् । संयमसिद्धयोऽये विस्तरतो वयन्ते सांप्रतं संयमस्य योगाङ्गताप्रयोजकं द्वारमाह ।
तज्जयात्प्रजालोकः ॥ ५ ॥
तज्जयः संयमस्य जयः स्थैर्य सात्यमिति यावत् । तस्मात्मजाया पालोको दीप्रिर्बुद्धिः क्रमेण भवतीत्यर्थः । तदेतद्याचाटे । तस्येति । स्वोक्तं विवृणोति। यथेति। वैशारदां चातिसूत्मव्यवहितार्थानां परप्रत्यक्षीकर. णसामर्थमिति । संयमस्यानुष्ठाने विशेषमाह ।
तस्य भूमिषु विनियोगः ॥ ६ ॥
तस्य संयमस्य स्थलादिपूर्वपूर्वभूमिकाजयानन्तरं सूत्मादिषत्तरोत्त. भूमिकासु नियोजनं योगिना कर्तव्यमित्यर्थः । एतदेव व्याचष्टे भाष्यका. रस्तस्येति । अनन्त। अव्यवहिता । क्रमेा भूमिकारोहे युक्तिमाह । नही. ति । प्रान्तभूम्यपेक्षया ऽधरऽधस्था भूमिरजिता येन सेजिताधरभूमियोगी नहि अनन्तरभूमिमव्यवहितभूमि विलय प्राप्तभूमिषु व्यवहितो. तरभूमिषु संयमं लभते । धनुर्धरादिषु स्थलवेधादानन्तरमेव सूक्ष्मे वेधा. दिदर्शनात्सोपानारोहणादिषु च क्रमेणैवाहादिदर्शनात् अन्यथाधः पातात तदभावाचेति । ततश्च संयमालाभात कुतः प्रजालोकस्तत्तद्धमि. घु स्यादित्यर्थः । तथा चोक्तं गारुडे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org