________________
योगवार्तिकम् ।
प्राणायामैर्द्वादशभिर्यवत्कालः कृतो भवेत् । सतावत्कालपर्यन्तं मनो ब्रह्मणि धारयेत् ॥
इत्यादि । एतदेव तु धारणा सामान्यलक्षणम् । अन्यथा क्षणमात्रेणापि धारणापत्तेः । अतः सूत्रेाक्तं विशेषलक्षणमपि प्राणायाम (दशकालावच्छिन्नत्वेन विशेषणीयमिति । धारणा साध्यं ध्यानमाह ।
१८५
तच प्रत्ययैकतानता ध्यानम् ॥ २ ॥
भाष्यं सुगमम् । इदमपि ध्यानलक्षणं प्रायमित्सर्गिक ध्याना भिप्रायेण सर्वत्र ध्याने देशा नियमात् । अतोप्य गरुडे लक्षयान्तरमुक्तं तस्यैव ब्रह्मणि प्रोक्तं ध्यानं द्वादशधारणेत्यनेन । तस्यैव द्वादशप्राणायामकालेन धारितचित्तस्य द्वादशधारणाकालावच्छिन्नं चिन्तनं ध्यानं प्रोक्तमित्यर्थः । अनेन च पूर्ववत्सूत्रोक्तं विशेषलक्षणं विशेषणीयम् । ध्यानसाध्यं समाधिं लक्षयति ।
तदेवार्थमाचनिभीसं स्वरूपशून्यमिव समाधिः ॥ ३ ॥
मात्रपदास्यार्थः स्वरूपशून्यमिवेत्यनेन स्वयं विवृतः । तदेताचष्टे । ध्यानमेवेति । तदा तदेव ध्यानं ध्येयस्याकारेणैव साक्षिणि निर्भासते न तु प्रत्ययाकारनिभासं चित्तस्य ध्येयस्वरूपावेशेनाहमिदं चिन्तयामीत्येवं प्रत्ययाकारवृत्त्यन्तरानुदयात् । तदा ध्यानमेत्र समाधिरुच्यतइत्यर्थः । ध्यानस्वरूपस्य वस्तुतः सत्त्वादेव शब्दप्रयोगः । तथा च ध्यातृध्येयध्यानकलनावत् ध्यानं तद्रहितं च समाधिरिति ध्यानसमाध्याविभागः । इदं च समाधिलक्षणं पूर्वसूत्रोक्तध्यानविशेषतया देशघटतत्वेनापरिच्छिनसमाध्यव्यापकम् अतेोर्थमात्रावभासनं चिन्तनमित्येव समाधिसामान्यलक्षयम् । उदाहृतेश्वरगीतावाक्ये तल्लक्षणसिद्धे । अथ वा गारुडोक्तं यथा । ध्यानं द्वादशपर्यन्तं मनो ब्रह्मणि योजयेत् ।
तिष्ठेत्तल्लयतो युक्तः समाधिः सोभिधीयते ॥
इतीति । अत्रापि सूत्रोक्तं विशेषलक्षणं ध्यानद्वादशगुणितकालाबच्चित्वेन विशेषणीयमिति । अस्य च समाधिरूपस्याङ्गस्याङ्गियोग
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org