________________
।
१८४.
योगवार्तिकम् । तदेकाग्यं धारणेत्यर्थः । तदेतवाचष्टे । नाभीति । मू िमस्ये ज्योतिषि धादिशब्देन गारुडायुक्तदेशान्तराणि याह्याणि, यथा गारुडे ।
प्राङ् नाभ्यां हृदये वाथ तृतीये च तथोर्रास । कण्ठे मुखे नासिकाये नेत्रभ्रमध्यमईसु ॥ किंचित्तस्मात्परस्मिंश्च धारणा दश कीर्तिताः ।
मुखे जिहाये । किंचित्तस्मात्यरस्मिनिति मूई उपरि द्वादशाकुलपरिमिते देशे लिङ्गशरीरस्य सप्राणस्य तावत्पर्यन्तं प्रदीपशिखावदवस्यानादवहितैस्तावत्पर्यन्तमेव लिङ्गशरीरानुगतोष्मेोपलभ्यते वाक्यानामुपलम्भाच्च । तदुक्तं कौम ।
शिखाये द्वादशाङ्गुल्ये कल्पयित्वाथ पङ्कजम् । ___ इत्यादिनेति । एतानि च नाभ्यादीनि जीवेश्वरयोर्मुख्यस्थानान्येव राजः सिंहासनवत् । जीवेश्वरव्यजक्रस्य लिङ्गशरीरस्य मुख्यस्थानत्वात अत एतानि धारणायाः प्रकृष्टदेशा उक्ताः आध्यात्मिक ध्यानदेशानुक्त्वा बाह्यानपि संक्षेपत आह। बाटे वा विषयति । चन्द्रसूर्याग्न्यादावीश्वरदेवतादिध्यानदेशइत्यर्थः । वृत्तिमात्रेणेति । वृत्तिमात्रेण न तु ध्येयकल्पनयेत्यर्थः । तेन धानादिव्यात्तिः । तदुक्तमीश्वरगीतायाम् ।
हृत्युण्डरीके नाभ्यां वा मर्द्धि पर्वतमस्तके । एवमादिप्रदेशेषु धारणा चित्तबन्धनम् ॥ देशावस्थितमालय बुद्धेर्या वृत्तिसन्ततिः । वृत्त्यन्तरैरसंस्पृष्टा तयानं सूरयो विदुः ॥ एकाकारसमाधिः स्याद्देशालम्बनर्वार्जतः । प्रत्ययो झर्थमात्रेण योगसाधनमुत्तमम् ॥
इति । बन्ध इतीत्यन्तेन देशबन्धशब्दं व्याख्याय सूत्रवाक्यार्थमुप. संहति । बन्ध इति । ईदृशो बन्यो धारणेत्यर्थः । इदं च धारणालक्षणं प्राथमिकपरिच्छित्रयोगाभिप्रायेण सूचितं यत्र प्रथमत एवेश्वरानुयहात अपरिच्छिवतया जीवब्रह्मयोगो भवति तत्र देशालम्बनधारणानुपयोगात् । अतो धारणाया अन्यदपि लतणं गारुडादावप्युक्तम् । यथा गारुडे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org