________________
योगवार्तिकम् । षययोः संप्रयोगे तदपारतन्यमित्यर्थः । मतान्तरमाह । रागद्वेर्षात । राग. द्वेषनिमित्तकाभ्यां सुखदुःखाभ्यां शून्यो विषयभागस्तधेत्यर्थः । तेनाभिमा. निकसुखदुःखशून्यत्वं लब्धं कायिकपुखदुःखानां योगावस्यां विना परिहारासंभव इति भावः । एतेषु त्रिषत्तरोत्तरमुत्कर्षेपि नैते परमा दन्द्रियजया एतावन्मात्रमिन्द्रियवयनिरोधात् । अतः सूत्रकारसंमतं परममाह। चित्तका. ग्यादिति । चित्तैकाथ्यावेतोरिन्द्रियाणां या ऽप्रतिपत्तित्तिनिरोधस्तंदोग्यता स एव जय इति जैगीषव्य इत्यर्थः । तत इति । इयं च वश्यता ततो हेतोः परमा वश्यता। यत् यतः चित्तनिरोधेनेत्यादिरः। कालादिव्यावर्त नाय प्रयवकृतमिति । तथा च पूर्वसूत्रोचित्तानुकारस्य फलं लक्षणं च। या समाधौ चित्तेन सहेन्द्रियाणां कृत्तिनिरोधयोग्यता सैव परमवश्यताख्यो जयो ऽनेन . सूत्रेणोक इति । एतादृशवश्यताभावेनैव सौभस्त्रिभृतीनां योगअंशादियं पश्यतापि योनिष्पत्तिहेतुः । अत एव गीला ।
यतसाझपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमायोनि हरन्ति प्रसभं मनः ।। तानि सर्वाणि संयम्य युक्त पासीत मत्परः । धशे हि यस्र्योन्द्रयाणि तस्य प्रज्ञा प्रतिष्ठिता ।
दति । तदेवं ज्ञानसाधनमुखेन योगस्यापि बहिरङ्गानि यमादिप्रत्या. हारान्तानि ससिद्धीन्यत्र पादे प्रतानि धारणादित्रयस्य सिद्धिबाहुल्यात सिदिभिः सह तत्यतिपादनार्थमेव समग्रस्तृतीयपादो भविति ॥
इति श्रीपातजलभाष्यवार्तिके विज्ञानभिनिर्मित साधननिर्देश नाम द्वितीयः पादः ॥ २॥
योगाङ्गेषु मध्ये कियन्ति पूर्वपादे प्रतानि क्रियन्ति चात्र पादे इत्यत्र नियामकं वदवेव क्रमप्राप्तं धारणासूत्रमवतारयति । उक्तानीति । बहिरङ्गान्तरङ्गत्वे अपि पादभेदेन निरूपणे नियामके इत्यर्थः ।
देशबन्धश्चित्तस्य धारणा ॥१॥ यत्र देशे ध्येयं चिन्तनीयं तत्र धानाधारदेशविषये चित्तस्य स्थापन
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org