SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ योगवार्तिकम् । इत्यादिस्मृतिष्वपीवशब्द एव प्रयुक्त इति। तदेतढाचष्टे । स्वबि. पति । धेतीत्यन्तस्य एष प्रत्याहार इत्यागामिनान्वयः । अनुकार्यस्य कार्यरूपं लक्षणमाह। चित्तनिरोध इत्यादिना अपेक्षन्तइत्यन्तेन । चित्तस्य त्तिनिरोधकाले यत्स्वयमेन्द्रियतिनिरोधो भवति इदमेव परमवश्यत्वं प्रत्याहारकार्यत्वात् तल्लतमित्याशयः । निरुद्धानि भवन्तीति शेषः । नेतरोन्द्रियजयदिति । इतरे उक्तपरमवश्यत्वार्दारिता द्वितीयसूत्रवत्यमाणा इन्द्रियजयाः । तेषु सत्स्वपि स्वनिरोधार्य यथेन्द्रियाणि प्रत्याहा. रादिकमपेक्षन्ते नैवं यथोक्तप्रत्याहारे सति स्वनिरोधार्थ चिनिरोधात. रिक्तमपेक्षन्त इत्यर्थः । इन्द्रियाणां चित्तानुकारं दृष्टान्तेन प्रतिपादति । यथा मध्वित्यादिना निरुद्धानीत्यन्तेन । दाटी न्तके दृष्टान्तोक्तोत्यतनतुल्यो निरोधः । तेन च निवेशनतुल्यं ध्यानमप्युपलक्षणीयम् अन्यथा दृष्टात्तदान्तिकयोः साधादिप्रदर्शने न्यनतापत्तेः । एष प्रत्याहार इति । पुरैव व्याख्यातम् । सायं प्रत्याहारः सप्रयोजनो विष्णुपुराणे प्रोक्तः । शब्दादिष्वनुरक्तानि निरह्माताणि योर्गावत । कोच्चित्तानकारीणि प्रत्याहारपरायणः ॥ वश्यता परमा तेन जायते निष्कलात्मनाम् । इन्द्रियाणामवश्यस्तै योगी योगसाधकः ॥ इति । अतश्च प्रत्याहार इन्द्रियधर्म इति । योगे प्रत्याहारस्यावा. न्तरव्यापारभूतं तत्सिद्विसूचशमाह । ततः परमवश्यतेन्द्रियाणाम् ॥ ५५ ॥ ततः प्रत्याहारादिन्द्रियाणां परमो जयो भवतीत्यर्थः । तत्र पर मजयतिपादनार्थ बहुविधान पक्षानाह । शब्दादिष्वित्यादिना। व्यस. नशब्दार्थमाह । सक्तिरिति । सक्तिः सङ्गो येन शाम्त्रविरुद्वेषि विषयभोगे इन्द्रियाणि प्रवर्तन्ते । व्यस्यति तिति निरम्यत्येन श्रेयस इति व्युत्पति शेषः । एवं च सति शाम्बाविरुद्धा प्रतिपत्तिरेषभोगो न्याय्या एति पर्वाक्तन केचिदित्यनेनान्वयः । मतान्तरमाह । शब्दादीनि । इन्द्रियवि. - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004031
Book TitleYogvarttikam
Original Sutra AuthorN/A
AuthorVigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
PublisherVigyanbhikshu Ramkrushna Shastri Keshav Shastri
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy