________________
१८१
योगवार्तिकम् । प्राणायामस्य श्रेष्ठोपायत्वात् । अत एव पर्वपादे प्रकृष्टाधिकारिणः प्राणायाम एव साधनमुक्तं विक्षेपकतया तपोन्तराभावेपि तेनैव योगनि. प्पत्तिसंभवादिति । अन्यच्च भवतीत्याह।
धारणासु च योग्यता मनसः ॥ ५३ ॥
प्राणायामाभ्यासादेवेति सूत्रेण सहान्वयः । प्रच्छर्दनेत्यादिप्रथमपादीयसूत्रेण प्राणायामस्य धारणायोग्यतारूपस्थितिहेतुतावचनादित्यर्थः । एतेन तस्मिनपि सूत्रे पूरकादित्रयात्मकः प्राणायाम एवोक्त इत्यवधारणी. यम् । प्रत्याहारसूत्रमवतारयति । अथ क दति ।। खविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां
प्रत्याहारः ॥ ५४ ॥ इन्द्रियविषयासंप्रयोगकाले इन्द्रियाणां चित्तस्वरूपानुकारितेव या भवति सा इन्द्रियाणां प्रत्याहार इत्यर्थः । जितेन्द्रियस्य हि ध्यानकाले चक्षुरादीन्यपि ध्येयवस्त्वाकारेण चित्तेन तुल्याकाराणीव भन्ति न स्वातव्येण विषयान्तरं मनसैकीभूय संकल्पन्ति । तथा चित्ते निरोधोन्मुखे सति प्रयत्नान्तरं विनैव निस्दानि भवन्ति अतस्तस्र्योन्द्रयाणि चित्तानुकारीणीत्युच्यन्ते । अजिन्द्रियस्य तु चतुरादीनि तदानीमपि रूपादिषु मनसैव धान्ति अतश्चित्तमेवेन्द्रियानुकारि भवति ।
दुन्द्रियाणां हि सर्वेषां योकं तरतेन्द्रियम् ।। तेनास्य द्रवते प्रज्ञा दृतेः पादादिवोदकम् ॥
ति स्मृतरित्याशयः। अजितेन्द्रियस्यापि इन्द्रियाणि विषयभोगकाले चित्तानुकारीणि भवन्त्येवेति तद्यावर्तनाय स्वविषयासंप्रयोग इत्युक्तं धानकाले च चातपादितुल्या वृत्तिश्चित्तस्यैव भवति न तु चतुरादीनां तेषां तु तदतिरिक्तवृत्त्यभावमात्रमतानुकार इवेत्युक्तम् । अत एव ।
पिबचिव च चक्षभ्या पादौ संवाहयचिव । | चित्तेन्द्रियैक्यतो ध्यायेत्तनि विजिन्द्रियः ॥
।
।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org