________________
१८०
योगवार्तिकम् । देशेन तदुपलक्षितकालसंख्याभ्यां चानालोचितोऽनवधारितः सकदारब्धो. भ्यासबाहुल्यं विनैवोत्पदामानश्च भति । तथा स एव तृतीयो देशकालसंख्याभिः परिदृष्टो दीर्घसूत्मश्च भवतीति सामान्यविशेषाभ्यां तृती. यस्य रूपढयमुक्तम् । चतुर्थस्य तद्विपरीततामाह। चतुर्यास्त्वति। चतुर्थस्तु खासनश्वासयो रेचकपरकयोर्देशाविषयादावधारणानन्तरं क्रमिकभूमिजयादेतोः पूरकरेचकाक्षेपपूर्वको गत्यभाव इत्ययं चतुर्थप्राणायामे तृतीयाद्विशेष इत्यर्थः। प्राणायामस्य चापरे सगर्भागीदयो विशेषाः पुराणादिषु द्रष्टव्याः । 'जपध्यानयुतो गर्भी त्वगर्भद्विवर्जित' इत्यादिवाक्यैरिति दिक् । योगे जनयितव्ये प्राणायामस्य व्यापार तत्सिद्विसूचक्रमाह ।
ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥
ततः प्राणायामात । सूत्रं व्याचष्टे । प्राणायामानिति। विवेकज्ञाना. वरणीयं विवेकज्ञानावरकम, अथवा कोपनीयेत्यादिवत् अत्रापि कर्तरि कृत्यप्रत्ययः भव्यगेयप्रवचनीयादीनां कर्तरि निपातनस्य दिङमात्र प्रदर्शनपरत्वात् । कर्मति । कर्माधर्मः तस्य ज्ञानप्रतिबन्धकत्वमेव ज्ञानावरकत्वम् एतादृशं कर्म क्षीयतइत्यर्थः । कर्मणो ज्ञानावरकत्वे पूर्वाचार्यवाक्यं प्रमाणयति । यत्तदावनतइति । यत्तत्कर्म एवमाचक्षते । महामोहो रागस्तन्मयेन तत्पचुरेणेन्द्रजालतुल्येन शब्दादिविषयेण द्वारेण प्रकाशशीलपि बुद्धिसत्वमावृत्य तदेव कर्मवाकार्य संसारहेतुव्यापार एव नियुत्तइत्यर्थः । दुर्बलं प्रकाशावरणातमं भवति । तथा प्रतिक्षणं क्षीयते ऽपचीयते चेत्यर्थः । तदुक्तं मनुना।
दमन्ते मायमानानां धातूनां हि यथा मलाः । तन्द्रियाणां दान्ते दोषाः प्राणस्य निग्रहात ॥
इति । दोषाः पापानि तत्कार्य तमोमविपर्ययौ च । तपः पापनाशकं कर्म। पापक्षये सति यदवति तदाह । तत इति । ततः पापाख्यकारणाभा. वान्मलानां तमसां तत्कार्यविपर्ययाणां चापगमे ज्ञानदीनिश्चेत्यर्थः । ननु तपसैव पापतय इत्युक्तं तर्हि किं प्राणायामेति चेत्र । जानावरकपापक्षये
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org