________________
योगवार्तिकम् ।
१०९
तम् । अतस्तस्य केवलकुम्भक आसीदिति । श्रयं चतुर्थः प्राणायामः सोपा
1
यो वसिष्ठ संहितायामुक्तः । यथा ।
प्रस्वेदं जनयेदास्तु प्राणायामो हि सोधमः । मध्यमः कम्पनात्मक्त उत्थानं चोत्तमे भवेत् ॥ पूर्वपूर्व प्रकुर्वीत यावदुत्तमसंभवः । निश्वासोच्छु (सको देहे स्वाभाविकगुणावुभैा ॥ तथापि नश्यतस्तेन प्राणायामोत्तमेन हि । सोनाशे समर्थः स्यात् कर्तुं केवलकुम्भकम् ॥ रेचकं पूरकं त्यक्का मुख्यं यद्वायुधारणम् । प्राणायामायमित्युक्तः स वै केवलकुम्भकः ॥ सहितं केवलं वापि कुम्भकं नित्यमभ्यसेत् । यावत्केवलसिद्धिः स्यात् तावत्सहितमभ्यसेत् ॥ केवले कुम्भके सिद्धे रेचपूरकवर्जिते । न तस्य दुर्लभं किं चित् त्रिषु लोकेषु विद्यते ॥
इति । श्राकाशगमनादिशक्त्याविभावेन कामगमत्वादिकं स्याद् दूत्यर्थः । चतुर्यत्यात्पत्तिक्रमं कथयति । देशकालेति । ब्राह्मविषयो देवको देशकाल संख्याभिराद। परिदृष्टः पश्चाच्च देशादिभिः सहेवाक्षिप्ती ऽतिक्रामितो भवतीति शेषः । अतश्च सूत्रे देशवाचको विषयशब्दः कालसंख्ययेारप्युपलत्तणमित्याशयः । तथा आभ्यन्तरविषयः पूरको पि देशादिभिरादा परिदृष्टः पश्चाद्देशादिभिः सहैव से प्याक्षिप्तो भवति । तच्चाक्षिप्तमुभयथा दीर्घसूक्ष्मा द्विविधो दीर्घसूक्ष्मरिचरकालं देशादिभिर यस्तो रेचकपूरकाविति यावत् । तत्पूर्वक्रः सदुभयाक्षेपपूर्वकस्तदुभयमाचिपत्रिति यावत् । श्रवान्तरालिकभूमिकाजयात् कालक्रमेण न तु शीघ्रम् उत्पद्यमान एवं भूत उभयेोः श्वासप्रश्वासयोः गतिविच्छेदश्चतुर्थः प्राणाग्राम दूत्यर्थः । स्तम्भनृत्त्याख्यतृतीयप्राणायामात मिश्रकुम्भकादस्य वेरायमाह । तृतीयस्त्विति । तृतीयस्तु गत्यभावः स्तम्भवृत्तिर्विषयेण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org