________________
-
-
योगवार्तिकम् । मात्राद्वादशको मन्दश्चतुर्वितिमात्रकः । मध्यमः प्राणसंरोधः षट्त्रिंशमातृकोन्तिमः ॥
रति । अत्र परकादिविशेषावचनात विष्वपि प्राणायामेषु द्वादशद्वादशमानादिरूपैकेव संख्या इत्येवं पृथकल्पः । देशकालसंख्याभिः परिदृष्ट इत्यत्र चेच्छाविकल्प एव न तु समुच्चयः उदाहृतवसिष्ठवाक्यादी केवल. मात्रासंख्यायामपि प्राणायामदर्शनात् । समुच्चयानुष्ठाने तु फलभमा भवत्येव भसि भय इति न्यायादिति । दीर्घसूक्ष्म इति दलं व्यचाष्टे । स खल्विति । स बाह्याभ्यन्तरस्तम्भत्तिस्विविधः प्राणायामः । एवं देशा. व्यवधारणैरभ्यस्तः स दीर्घसमसंज्ञको भवतीत्यर्थः । दीर्घश्चासौ सत्म. श्चेति सान्वयेयं संज्ञा, देशादान्यतमनियमेन हि प्रत्यहमभ्यस्यमानः क्रमेण कालबद्वद्या दीर्घकालव्यापित्वेन दीघों भवति वायुसंचारस्यातिसूक्ष्मतया च सूक्ष्म इति । यद्यपि अभ्यस्त इति सूत्रे नास्ति तथापि दीर्घमूत्मसंजया पाक्षिप्त एव भाष्यकारेण व्याख्यात इति । तदेव प्राणायामस्य रेचककुम्भकपरकास्यविशेषत्रयमभ्यासाव्यगुणयोगेन तेषां दीर्घसूक्ष्मत्वं चोक्तम् इदानी केवलकुम्भकरूपं प्राणायामस्य चतुर्श विशेषमाह ।
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१ ॥
बाझाभ्यन्तरविषयको बाह्याभ्यन्तरवृत्ती पूसूत्रोक्तो रेचकपूरको तयोराक्षेपी अतिक्रमी तावतिय त्यत्वा स्वयमेव केवलो धनताति यावत् । एवं भूतो यः प्राणायामः स चतुर्थ इत्यर्थः । अस्य च केवल. कुम्भक इति सजा वसिष्ठवाक्याहातीर्भावात । पूर्वसूत्रोक्तस्तम्भवृति. स्तु नियमेन रेचकपूरकयोरन्तराल एव वर्ततति न ततिक्रमी, रेचकपूरक विषयातिरस्यापि लाभाय विषयघटितं लक्षणमुक्तम् । न तु रेचक. पूरकातिमी येवं मूत्रितम् । अयं च कुम्भको न रेचकपरकदेशेन परिच्छिवः व्यापकत्वात्, नापि कालसंख्यामा परिच्छिनः स्वेच्या माससंधत्सरादिकालस्थायित्वात् । स च प्राणायामो ध्रुवस्य विष्णु पुराणे अय. ते । तस्य हि तपसि प्राणनिरोधेन सर्वजीवप्राणनिरोधाभवदिति तत्रो.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org