________________
योगवार्तिकम् ।
१७७ यामस्य संख्या स्मृत इत्यर्थः । एवं प्रणवादयोपि मात्रा धसिष्ठयाजव. ल्यादिभिरुक्ताः । पूरकादित्रय एव द्वादशमात्रेत्ययमधमः कल्पः । यतः पूरकादिषु प्रत्येक मात्रायाः संख्याभेदो वसिष्ठसंहितायामुक्तः ।
एवं ज्ञात्वा विधानेन प्रणवेन समाहितः । प्राणायामत्रयं कुर्यात्परकुम्भकरेचकैः ॥ प्राकृष्य श्वसनं बाह्मात् परोदडयोदरम । शनैः षोडशमात्राभिस्कार तत्र संस्मरन् । मकारं मूर्तिमत्रापि संस्मरन् प्रणवं जपेत् । धारयेत पूरितं पश्चात् चतुःषष्ट्या तु मात्रया ॥ यावद्वा शक्यते तावद्वारणं जपसंयुतम् । परितं रेचयेत्पश्चात् प्रणवं मनिलान्वितम् ॥ शनैः पिङ्गलया पुत्र द्वात्रिंशन्मात्रया पुनः । ध्यायनाट्यातरं तत्र प्रणवस्य समाहितः ॥
इति । अकारोकारमकाराणां मर्तयो ब्रह्मविष्णुरुद्रशरीराणि मितं पुराणयुक्तं मात्राभेदं सामान्यता भाष्यकार आह । एताद्विरित्यादिना । एतादिः षोडशादिभिः मात्राख्यैः पदार्थः निमेषोन्मेषादिभिः । श्वास. प्रवेशः पूरकः प्रथम उद्धातः । वायोरुटुननं गतिनिरोध इति यावत् । तथा निगृहीतस्य स्तम्भितस्य वायोरेतादिश्चतुःषष्ट्यादिभिर्निमेषन्मेिषणादि. भिः कुम्भको द्वितीय उद्धातः। एवं तृतीय उदातार्थाद्रेचक्र, एताद्विात्रिं. शदादिभिर्निभेषेन्मेषणादिभिरित्यर्थः । अत्र प्रथमादिशब्दैः परकादित्रये क्रमवचनात्सीत्र: पाठक्रमानुष्ठाने नादर्तव्यः । तथा च पूरककुम्भकरेचका इत्येवासर्गिकोनुष्ठानक्रमः पुराणादिषु बाहुल्येन दर्शनाच्च । सृष्टी महदा. विक्रमवदिति । प्रकारान्तरेणापि संख्यापरिदृष्टत्वमाह । एवं मृदुरित्या. दिना । एवम् एतावद्धिमत्राप्रमाणेम॒दुः प्राणायामः एवम् एतादिर्म ध्यमः एवमेतावदिस्तीनः प्राणायाम इल्प संख्या परिदृष्टो भवतीत्यर्थः।
तदुक्तं कौम ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org