________________
योगवार्तिकम् । याम इति योगादरेणायामाख्यनिरोधस्य विशेष्यीकरणादिति । यत्र श्वासेति । यत्र श्वासेन परकण गत्यभावः स आभ्यन्तरः आभ्यन्तरवृत्तिः प्राणायामः पूरकनामेत्यर्थः । स्तम्भवृत्तिरिति । यत्रोभयाभावः श्वासप्र. श्वासयोरभावः सकृत्प्रयत्नादेवाभ्यासनिरपेताद्ववति स स्तम्भवृत्तिः प्राणायामः कुम्भकनामेत्यर्थः। वयमाणस्य कुम्भकभेदस्य चतुर्थप्राणायामस्य व्या. वर्तनाय सकृत्प्रयवादिति विशेषणम् । स हि प्रयत्नबाहुल्येनैव भवतीति तत्रैव प्रतिपादयिष्यति । एकदैव बाह्याभ्यन्तरमाणविलापने दृष्टान्तमाह । यथा तप इति । द्वयोबाह्याभ्यन्तरदेशयोः । देशकालसंख्याभिः परिदृष्ट इति विशेषणस्यायमर्थः । एतावद्देशेन वा एतावत्कालेन वा एतावन्मात्रसंख्याभिवावच्छिन्नो मया रेचकादिः कर्तव्य इत्येवमवधारित इति । तदेद्विभज्य व्याचष्टे । त्रयोप्येतइति । त्रयो रेचकपरककुम्भकाः । द्या. निति । नासायात प्रादेशद्वादशाङ्गुलहस्तादिपरिमितो बाह्मदेशो रेचकस्य विषयः स चेषीका तूलादिक्रियानिश्चेयः। परकस्य चापादतलमामस्तकमा. भ्यन्तरो विषयः स च पिपीलिकास्पर्शसदृशेन स्पर्शन निश्चयः । कुम्भकस्य रेचकपरकयोः बाह्याभ्यन्तरदेशी समुच्चितावेव विषयः उभयत्रैव प्राणस्य विलयात् । स च तूलस्य क्रियाया उक्तस्पर्शस्य चानुपलब्ध्या निश्चय इति। कालेनेति । चतुर्निमेषाच्छित्रस्य कालस्य चतुर्थभागः क्षणः तेषामियत्ता. वधारणेनाच्छिवाः एतावत्तणरेचकादिः कर्तव्य इति निर्यामता इत्यर्थः । संख्याभिरिति । मात्राणां द्वादशादिसंख्याििरत्यर्थः । यद्यपि संख्याभिरपि कालनियम एव क्रियते । तथापि प्रकारभेदावेद इति । तत्र हि शध्वन्यादिना कालनियमः क्रियते स कालेन परिदृष्टः यत्र च वक्ष्यमा. णमात्रासंख्याभिः कालनियमः क्रियते स संख्याभिः परिदृष्ट इति । संख्यार्थ मात्रा च मार्कण्डेयप्रोक्ता ।
निमेषोन्मेषणे मात्रा तालो लघ्यतरं तथा। प्राणायामस्य संख्यार्थ स्मृतो द्वादशमाजिकः ॥
बति । निमेषादिमध्यतरान्तं मात्राप्रमाणं तदेव दर्शयत्युत्तराईन द्वादशमात्रिको द्वादशगुणितो यः कश्चन निमेषादिरयं पदार्चः प्राणा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org