________________
योगवार्तिकम् ।
१७५
रेचकं पूरकं त्यक्त्वा सुखं यद्वायुधारणम् । प्राणायामोमित्युक्तः स वै केवलकुम्भकः ॥
ति वासिष्ठसंहितादी केवलकुम्भकस्यापि प्राणायामत्ववचनादिति । इदं सूत्रं व्याचष्टे । सत्यासनइति । यथा यमनियमयोरन्यकालक्तयोर्योगाङ्गत्वं नैवमासनस्य किं तु प्राणायामादाङ्गपञ्चकसाहित्येनेति एतत् प्रतिपादयितुं सत्यासने इति विशेषणं तथा च सत्यासनति समा. घिसूत्रपर्यन्तम् अनुवर्तनीयम् । गीतादावासनोपरागेणेव ध्यानादिस्मरणादिति । अत एव चासनादीनां षडङ्गानां सहानुष्ठेयत्वेनारादुपकारकत. यान्तरङ्गमित्याशयेन स्मृत्यादिषु क्वचित्प्रसो योग उच्यते । यमनियमयोः कालान्तरीयतयात्यन्तबहिरङ्गत्वादिति । आचमनमन्तःप्रवेशः । नन्वेवं प्रवेशनिर्गमरूपयोः श्वासप्रश्वासयोः गतिरेव नास्तीत्याशयेनाह । उभयाभाव इति । तथा च गतिशब्दार्थात्र न विवक्षितः स्वाभाविकश्वा. सप्रश्वासयोः प्रतिषेधः प्राणायाम इत्येवार्थः । अवान्तरभेदप्रतिपादकमुत्त. रसूत्रं पूरयित्वोत्थापति । स विति । बाह्याभ्यन्तरस्तम्भत्तिर्देशकालसंख्याभिः परिदृष्टो
दीर्घसूक्ष्मः ॥ ५॥ स तु प्राणायामो बाह्मत्तिराभ्यन्तरवृत्तिस्तम्भवृत्तिरिति त्रिविधः रेचकपूरककुम्भकभेदात् । तदुक्तं विष्णुपुराणे ।
परस्परेणाभिभवं प्राणापानौ यदानिलो । कुरुतः स द्विधा तेन तृतीयः संयमात्तयोः ॥
इति।सच त्रिविधः। प्राणायामो देशकालसंख्याभिः परिदृष्टो नि. ीतो नियमितो भवति तदाभ्यासवशात् क्रमेण दीर्घसूत्मसंज्ञको भवतीति सूत्रार्थः । तदेताचष्टे । यत्रेति । विशेषाणां सामान्यनिष्ठत्वात यं सप्तमी । यत्र प्राणायामे गतिविच्छेदे प्रश्वासपूर्वकगत्यभावः प्रश्वासेन रेचकेन गतिविच्छेदः स बाझो बाह्मत्तिः प्राणायामो रेचकनामे. त्यर्थः । न च रचनं बाह्य इत्येवास्त्विति वाच्यम् । प्राणस्यायामः प्राणा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org