________________
१७४
योगवार्तिकम् । इति । इतराण्यासनानि योगप्रदीपायुक्तानि संक्षेपात्कथ्यन्ते । दण्डासनम् उपविश्य श्लिष्टाइलिको श्लिष्टगुल्फो भूमिश्लिष्टजङ्घोरुपादा प्रसार्य दण्डवच्छयनम् । सोपाश्रयं योगपदयोगेनोपवेशनम् । पर्यडू च जा. नुप्रसारितबाहोः शयनम् । क्रौञ्चनिषदनादीनि क्रौञ्चादीनां निषण्णानां संस्थानदर्शनात प्रत्येतव्यानि । जान्वोपरि हस्ती कृत्वा काशिरोयीवाणा. मवक्रभावेनावस्थानं समवस्थानम् । स्थिरमुखं च सूत्रीपातं, तस्य व्याख्यानं यथासुखमिति । आदिशब्देन मायरायासनानि याह्माणि । यावन्ता जी. वजातयस्तावन्त्येवासनानीति संक्षेपः । आसनस्थैर्यस्योपायमाह ।
प्रयत्नशैथिल्यानन्तसमात्तिभ्याम ॥ ४७ ॥
प्रयत्नशैथिल्यस्य द्वारमाह । येन नाङ्गैति । बहुव्यापारानन्तरं चेदासनं क्रियते तदाङ्गकम्पनादासनस्थैर्य न भवतीत्याशयः । अनन्तेति । अथ वा प्रयनशालिवपि पृथिवीधारिणि स्थिरतरशेषनागे समापनं तद्वा. रणया तदात्मतापचं चित्तमासनं निष्पादयतीत्यर्थः । तच्चानन्तानुग्रहाद्वा सजातीयभावनावशाद्वा अदृष्टविशेषवशाढत्यन्यदेतत् । आसनतिष्ठायां सिद्धिमाह।
ततो इंदानभिघातः ॥ ४८ ॥ भाष्यं सुगमम् । क्रमप्राप्तं प्राणायाममाह । तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणा
यामः ॥ ४६॥ वत्यमाणचतुर्विधप्राणायामस्यैवं सामान्यलक्षणं गतिविच्छेदः । शास्त्रोक्तरीत्या स्वाभाविकगतेः प्रतिषेध इत्यर्थः । स च रेचकपूरककुम्भ केष्वनुगतः । नन्वेवं प्रत्येकस्यापि प्राणायामत्वापत्त्या त्रिभिर्मलित्वैकप्राणायाम इति 'प्राणायामस्तु विज्ञेयो रेचकपूरककुम्भकै' रित्यादिवाक्योक्तं व्याहन्येति चेत्र । त्रयाणां पार्वापर्यण प्रथमभूमिकायां सहानुष्ठाननियमादेकत्वव्यवहारोपपत्तेः । न तु तादृशवाक्येषु मिलितानामेव प्राणाया. मत्वं विवतितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org