________________
योगवार्तिकम् ।
१७३
तदुच्यते, आदी तावद्वेशादयन्तरस्यमपि ध्येयं सर्व श्रवणमननकाले यथार्थमेव जानाति । गुरुवाक्यादावविपर्यस्तं भवति । ततोस्य योगिनः प्रज्ञा समाधिकालेपि यथार्थमेव साक्षात्करोतीत्यर्थः । एवं संप्रज्ञातसिद्धावसंप्रज्ञातसमाधिः स्वयमेव सिध्यतीति तत्र प्रदर्शितम् । न चेश्वरप्रणिधानादेव योगनिष्पत्तावित राहूवैयर्थ्यामिति वाच्यम् । ईश्वरप्रणिधानस्य मोहमात्रनिवृत्तिद्वारत्ववचनात् । द्वारान्तरेण त्वङ्गान्तराणां समाधिसाधनत्वसंभवात् । अपि च ईश्वरप्रणिधानेनैव निर्विघ्नं सर्वाण्यङ्गानि संपाद समाधिं जनयतीति नान्याङ्गवैफल्यम् । अथ वा अन्यान्यङ्गानीश्वरप्रणिधानद्वारा समाधिं निष्पादयन्ति इतराङ्गानां च स्वतो नैतादृशी शक्तिरस्ति इत्याशयेने श्वरप्रणिधानस्यैव तु मुख्यतः समाधिसाधकत्वं सूचितमिति बहिरङ्गत्वं स्वस्य संयमद्वारकतया अनावश्यकतया च वक्ष्यतीति । सूत्रान्तरमवतारयति । उक्ता इति । स्थिरसुखमासनम् ॥ ४६ ॥
स्थिरं निश्चलं सुखकरं च यत्तदासनम् आस्यतेऽनेन प्रकारेणेत्यासनमित्यर्थः । आसनस्य भेदानाह । तद्व्ययेति । तत्र पवाट्यासनचतुष्टयस्य लक्षणं वसिष्ठेनेोक्तम् ।
ष्ठ सचिवधीयात् हस्ताभ्यां व्युत्क्रमेण तु । ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतले उभे ॥ पवासनं भवेदेतत् सर्वेषामेव पूजितम् । एकपादमथैकस्मिन् विन्यस्योरौ च संस्थितः ॥ इतरस्मिंस्तथा पादं वीरासनमुदाहृतम् । अस्यैवार्द्धमासनमप्युच्यते, तथा ।
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । पार्श्वपादा च पाणिभ्यां दृढं बध्वा सुनिश्चलः ॥ भद्रासनं भवेदेतत्सर्वव्याधिविषापहम् । जानीरन्तरे सम्यक् कृत्वा पाइसले उभे ॥ कायः सुखासीनः स्वस्तिकं तत्प्रचचते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org