________________
१७२
योगवार्तिकम् । - नास्त्युत्तमं सुखं यस्मात्तादृशसुखस्य लाभ: संतोषस्यैयादवतीत्य. र्थः । तृष्णाक्षयो हि संतोषः तृष्णाप्रतिबन्धापगमे च चित्तस्य स्वाभाविक सत्याधिक्यानिमित्तिका सुखस्वभावता स्वत एवाविर्भवति न तत्सुखे विषयापेतेति तनिर्विषयं शान्तिसुखम् प्रात्मसुखमुच्यते । ते ये शतं प्रजापते. रानन्दाः। स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्ये त्यादिश्रुतेः। ईश्वरस्य पर्णकामत्वात् त्रियस्य च ज्ञानेन कामतयादुभयोरेव वैत. प्णस्य तुल्यतया समानं सुखमित्याशयः । बुद्धेः सत्त्वात्मकतया सुखस्वभाव. त्वेन जीवेपि नित्यं सुखमिदमेव गीयते स्वाभाविकस्य याषद्रव्यभाषित्वात तमसा पिहितत्वेन च सदानभिव्यक्तत्वात न पुनश्चितिरेव सु. खस्वरूपिणी चिन्मात्रत्वश्रुतिस्मृतिसूत्र* विरोधादेरुतत्वात् इति । संतोषा. दभिव्यक्तसुखस्यानुत्तमत्वे स्मृतिमुदाहरति । तथा चोक्तमिति । कामसुखं कामेभ्यो लौकिकविषयेभ्यः सुखं दिव्यं संकल्पमात्रोत्थविषयज' 'संकल्पादेवास्य पिहरः समुत्तिष्ठन्ती'त्यादिश्रुतः । तृष्णाक्षयसुखस्य तृष्णाक्षयाभिव्यक्तसुखस्येत्यार्थः । विदेहकैवल्ये तु सुखवाक्यानि दुःखनिवृत्त्या गौणा. नीति ।
कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः । ४३ ॥
व्याचष्टे । निर्वय॑मानमिति । अशुद्धिरधर्मस्तामसो गुणः सैवा. णिमादिशक्तरावरको मत इत्यर्थः । अणिमादिसिद्धीविभतिपादे व्याख्या. स्यति । शेषं सुगमम् ।
खाध्यायादिष्टदेवतासंप्रयोगः ॥ ४४ ॥
संप्रयोगो दर्शनं यां देवतां द्रष्टुमिच्छति सैव दृश्या भवतीत्यर्थः । | सुगमं भाष्यम् ।
समाधिसिद्धिरीश्वरप्रणिधानात् ॥ ४५ ॥
ध्याचष्टे। ईश्वरेति । ईश्वरऽर्पितः सर्वभावः सर्वव्यापारी येन तस्य समाधिसिद्धेोगनिष्यत्तिर्यथा येन प्रकारेणेश्वरानुग्रहतो भवति * युक्तीत्यधिकं पुस्तकान्तरे । मल इति पा०२।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org