________________
योगवार्तिकम् ।
१७९ शान्तोदिता व्यपदेश्यानां जन्मनां स्वरूपतः प्रकारतश्च जिज्ञासामात्रेण सालात्कारोऽपरिग्रहस्यैर्ये भवतीत्यर्थः । तदेतद्व्याचष्टे । अस्य भवतीति । ददं सूत्रेण सहान्वेति । कोऽहमासं कथमहमासमित्यतीतजन्मनः स्वरूपप्रकारयेोर्जिज्ञासा किंस्विदित्यादिद्वयं वर्तमानजन्मनः स्वरूपप्रकारजिज्ञासा के वा भविष्याम इत्यादिद्वयं च भाविजन्मन इति । पूर्वापरान्तमध्याः भूतभविष्यद्वर्त्तमानकाला: तेष्वस्य योगिनः स्वजन्म जिज्ञासोत्पत्रमात्रैव स्वरूपेण स्वविषयेण ज्ञानेन उपावर्त्तते विशिष्टा भवति नास्त्यत्र साधनापेचेत्यर्थः । स्वतः सर्वार्थग्रहणये।भ्यस्यापि चेतसोऽतीतादीनां स्वावस्थानाम् अग्रहयं परियहव्यासङ्गदोषात तो परिग्रहस्थैर्यात्ताः क्षणं प्रणिधानमात्रेणैव सन्तइति भावः ।
शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४० ॥
शौचात् शैौचस्यैर्यात् । अनेन सूत्रेण बाह्यशौचस्यैर्यस्य सिद्धिरुच्यते, जुगुप्सा कुत्सा अशुचित्वदोषदर्शनं तस्याशेषतः साक्षात्कार इति यावत् । शौचात्स्वाङ्गजुगुप्सायां युक्तिमप्याह । स्वाङ्ग इति । यतः पूर्वमल्पजुगुप्सया शौचमभ्यस्तम् अतो तिशयितजुगुप्सा शौचफलं युक्तेत्याशयः । जुगुप्सां विवृ गोति । कायेति । अवदयं दोषः । तज्ज्ञानस्य फलमाह । कायानभिष्वङ्गीति । शेषं सुगमम् । अतः शौचस्य सिद्धिसूचकं सूत्रमवतारयति । किं चेति । सत्त्वशुद्धि सैामनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ ४१ ॥
*
एतेषु क्रमं दर्शयति । शुचेरिति । चालितचित्तमलस्य सत्त्वशुद्धिः सत्त्वोद्रेको भवति ततः सौमनस्यं प्रीतिः स्वत एवानन्दो जायते ततश्च प्रीतचित्तस्याविक्षेपादेकाय्यं तत इन्द्रियजयः ततश्वात्मदर्शनयोग्यत्वमिति । सूत्रद्वयार्थमुपसंहरति । एतदिति । एतत्सत्रद्वयोक्तं शैौचसामान्यस्य स्थैर्यास्प्राप्यते इत्यर्थः ।
संतोषादनुत्तमः सुखलाभः ॥ ४२ ॥
• श्रभिष्वङ्गः प्रीतिरिति पुस्तकान्तरेऽधिकम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org