________________
१७०
योगवार्तिकम् । प्रतिपक्षेति । हेया हातुमही एवंभूता वित्तको यदास्य योगिनः प्रति. पक्षभावनातो विषयसानिध्यकालेप्यप्रसवस्वभावा भवन्ति तदा तत्कृतं वितर्कहानिकृतमैश्वयं यमादिनिष्पत्तिसूचकं भवतीत्यर्थः । तविष्यत्त्यवधारणे च तत्तद मिषु यत्नं विहाय भूमिकान्तरेषु योगी यत्नमातिष्ठतेत्ये. तत्यतिपादयितुं सर्वेष्वेव योङ्गागेषु सिद्धिकथनम् । तद्यथा तदैश्वयं यथा।
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ ३५ ॥
प्रतिष्ठायां स्थैर्य उक्तवितरसंस्पर्शइति यावत् । तस्यां सत्यां त. त्सविधिस्यानां सर्वप्राणिनां मार्जारमूषकादीनामन्योन्यरित्यागो भवतीत्यर्थः ।
सत्यप्रतिष्ठायां कियाफलाश्रयत्वम ॥ ३६ ॥ ____सर्वप्राणिनां भवतीत्यत्रापि शेषः । क्रिया धर्मः तस्य फलं स्वादिः तयोराश्रयत्वं सर्वप्राणिनां सत्यप्रतिष्ठस्य वचनाद्ववतीत्यर्थः । तदे. तयाचष्टे । धार्मिक इति । धार्मिको भया इति वचनात संबोध्यो धामिको भवतीत्यादिरर्थः । अमोघेति । एवं प्रकारेणास्य योगिनो वाक सत्या भवतीत्यर्थः । अत्र वाक् मनसोप्युपलक्षणम् ।
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ ३७ ॥
सर्वाभ्यो दिग्यो रवोपस्थानं सर्वरनोपस्थानम् । तदेतवाचष्टे । सर्वदिक्कानीति ।
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८॥
वीय शक्तिविशेष लक्षति । यस्यति। यस्य वीर्यस्य लाभात्मतीघातवर्जितान् गुणान् ज्ञानक्रियाशक्तीरुत्कर्षति योगी वर्धयति तथा सिद्धः स्वयं ज्ञानी भूत्वा शिष्येषु ज्ञानाधानसमर्थश्च भवतीत्यर्थः ।
अपरिग्रहस्थैर्य जन्म कथंतासंबोधः ॥ ३८ ।
अपूर्वण देहेन्द्रियादिसंघातेन ज्ञानहेतुः संबन्धो जन्म तस्य कथं. ता किंप्रकारता तयोः संबोधः साक्षात्को जन्मकथंतासंबोधः । तथा च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org