________________
योगवार्तिकम् । सुबीजस्य चित्तभूमावावपने गता सहावापितत्यर्थः । धान्यबीजवपने तृणबीजानां वपनदिति भावः । भवेदल्यायुरिति । ननु 'अहिंसन्सर्वाणि भू. तान्यन्यत्र तीर्थभ्यः' 'तस्मानजे वधो ऽवध' इत्यादिश्रुतिस्मृतिभिर्धेधहिंसा. तिरिहिंसाया एष प्रतिषेधात् कथं वैहिंसाया अनिष्टसाधनत्वमुच्यतइति । अत्रोच्यते । कार्यत्वमिष्टसाधनत्वं वा विधी न पुनरनिष्टाननुबन्धित्वमपि । राजत्वादिप्रापककर्मणां गर्भवासजन्यादयनर्थहेतुतायाः सर्वसंमतत्वात् । न च बलवनिष्टाननुबन्धित्वमपि विध्य वक्तुं श. क्यते । अनिष्टेषु पुरुषाणां बलवद्वेषस्याव्यवस्थितः । दुःखमेव सर्व वि. वेकिन इत्युक्तत्वात् । किं च बलवदनिष्टाननुबन्धित्वस्य विध्यर्थत्वेपि यजादिनान्तरीयहिंसायाः सामान्यतोऽनिष्टजनकत्वविरोधः । अपि चा. वैधहिंसात्यागस्य स्वर्गादिसाधनताबोधविधिभिर्वहिंसायाः स्वर्गादिसाधनताबोधविधिभिश्च सह हिंसाया मृतवाझनिष्टहेतुताबोधकश्रुतिस्मृतीनां नास्त्येव विरोधो येन तामु संकोचः कल्प्येत अतो युक्तमुक्तं पुण्यावापगतानामपि हिंसानामनिष्टहेतुत्वम् । पुण्यावापगहिंसास्वपि यु. धिष्ठिरादीनां प्रायश्चित्तश्रवणादप्ययमेव सिद्धान्त उचीयते ।
तस्मादयास्याम्यहं तात दृष्टमं दुःखसंनिधिम् । अयोधर्ममधर्माय किंपाक्रफलसंनिभम् ॥ इति मार्कण्डेयादिस्मृतिश्रुत्यादिभ्यश्च । अत एव स्मर्यतेपि । सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखेषु तथोद्विन्ति । तेषां भयोत्पादनजातखेदः कुर्यात्र कर्माणि हि जातवेद ॥
इति मोतधर्मादिष्विति । बधोऽवध इत्यादि वाक्यं तु वधाभासता. परमिति दिक। एवमिति । अनृतादिष्वप्येवं दुःखाजानफलकत्वं यथासंभव मरणादिकं विहाय योज्यमित्यर्थः । प्रतिपत्तभावनस्य प्रयोजनमाह । एवं वितकोणामिति । अनुगतं नियतमेवनिष्टं विपाकं वितकाणां कार्यमेव चिन्तयन् योगी न वितर्केषु मनः प्रणिदधीत ददातीत्यर्थः । यमनियम. निष्पतिसूचकानां सिद्धान्तानां प्रतिपादकानि सत्राणि अवतारयति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org