________________
१६७
योगवार्तिकम् । षयेत् चिन्तयेत् इत्यर्थः । प्रतिपक्षभावनं व्याचष्टे । घोरेष्वित्यादिना भावयेदित्यन्तेन । वितर्कान् हिंसादीन् । अत्र दुःखफलत्वचिन्तनं वाक्य. तात्पयार्थः । तुल्यत्वमेव विवृणोति। यथेति । एवमादीति । वितर्कबाधने प्रतिपक्षभावनमित्येवमादिकं सूत्रान्तरेषु आसनप्राणायामसूत्रेष्वपि योजनीयम्। आदिशब्देनास्य सूत्रस्य व्याख्या उत्तरसूत्रं च याह्यम् । आसनादिषु च वितको आसनादिकं त्यत्यदत्यादिरूपा इति शेषः । इदानीं ये वितकोः ये वा वितर्कस्य प्रतिपक्षाः यादृशं वा तच्चिन्तनं तत्रयमाह । विती हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्त.
फला इति प्रतिपक्षभावनम् ॥ ३४ ॥ हिंसादय इति । विताणां स्वरूपकथनं विशेषणत्रयेण । तत्तगतविशेषाणां कथनं सर्वथैव हेयत्वप्रतिपादनाय । दुःखादिफलकत्वकथनं च प्रतिपक्षकथनम् । प्रतिपक्षान भावयेदितिपूर्वसूत्रीयभाष्यानुपपत्या प्र. तिपक्षभावनमित्यन्तकर्मधारयासंभवात् । शेषेण च भावनकथनमिति । दुःखाजाने एवानन्ते फले येषामिति विग्रहः । विशेषणत्रयोक्तान विशेषान् विकृणोति । तत्र हिंसेति । कृति । कृता वा कारिता वा अनुमोदिता वेत्यर्थः । तत्र कृता स्वयं निष्पादिता कारिता कुर्वित्युक्ता अनुमोदिता परैः क्रियमाणा साधुसाध्वोत्यङ्गीकृता । तादीनामपि द्विती. यविशेषणोक्तं त्रैविध्यं ध्याचष्टे । एकैकेति । लोभेनेत्यस्य व्याख्या। मांसचार्थन मांसचर्मादिप्रयोजनेन तथा अपक्षतमनेनेत्येवं क्रोधेन तथा मोहेन यज्ञार्थहिंसया निर्दोषो धर्मा भविष्यतीत्येवंरूपेणेत्यर्थः । यद्यपि मृदुमध्याधिमात्रा इति हिंसादिविशेषणं सूस्ति तथापि लोभादेमंदुत्वादिनैव हिंसादेर्मुदुत्वादिकमत्र विवतितमर्थसौष्ठवमित्याशयेन लोभादिविशेपणतया मृदुत्वादीन ध्याचष्टे । लोभकाधमोहा इति । लोभनोधमोहा एकेकाः पुनस्विधा मृदुमध्याधिमात्रा इत्यर्थः । एमित्यादि हिंसाया इत्यन्तमेकं वाक्यं मृदुमध्याधिमानत्वात्ततोपि विशेष रति पूर्वपादीय.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org