________________
૧૯૬
योगवार्तिकम् ।
देवद्विजगुरुप्राज्ञपूजनं शैौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥
इत्यादिवाक्येभ्यो ऽत्रानुक्तकर्मणां तपस्येवान्तर्भावात् । एवं यो गिनामन्तर्यागाऽभयदानादेरपि तपस्येवान्तभावः । देवब्राह्मणार्थहिंसाया अपि त्याज्यवचनेन च प्रकृष्टयोगिनां बाह्यकर्मणाम् अभावसिद्धिरिति । तदेवं यमाः पञ्च नियमाश्च पञ्च सर्वस्मृतिसिद्धाः प्रोक्ताः । ननु* यमानामभावरूपतया कालाद्यनवच्छिवत्वसंभवात् सार्वभौमत्वमुक्तं नियमा नां तु प्रतिनियतकालावच्छिचतया न सार्वभौमत्वं संभवति तो नाज महाव्रतरूपो विशेष उक्त इति । यथेोक्तयोश्च यमनियमयोर्मध्ये निवृत्तिरूपतया शक्यसंपादनत्वेन यमा एव परमहंसानामावश्यका जडभरतादीनामर्थ्याहिंसापालनस्य विष्णुपुराणादा स्मरणात् । न तु नियमाः प्रवृत्तिरूपतया योगान्तरायत्वात् । तदुक्तं भागवते
यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् ।
इति । उक्तेषु यमनियमेषु वक्ष्यमाणविघ्नस्य निवृत्त्युपायप्रतिपादकं सूत्रं पूरयित्वावतारयति । एतेषां यमनियमानामिति । वितर्कबाधने प्रतिपक्षभावनम् ॥ ३३ ॥
वक्ष्यमाणवितर्केर्यमादिबाधने सति वक्ष्यमाणं प्रतिपक्षभावनं कुर्या दित्यर्थः । तदेतद्वाचष्टे । यदास्येति । विपरीतास्तकी विचारा येष्विति । वितर्कसंज्ञा हिंसादिषु तान्त्रिकी । तर्कश्चात्र विशेषणं, तथाच वितमाया हिंसादिर्वितर्कः तेन बाधने स्वाभिमुखीकरणे प्रतिपक्षभावनम् । उत्तरसूत्रवक्ष्यमाणं कुर्यादित्यर्थः । विपरीततर्कस्याकारमाह । हनिष्यामीत्यादिना इतीत्यन्तेन । एवं नियमपञ्चकेपि त्यक्ष्याम्यहं शैौचमित्यादयो वितकीः द्रष्टव्याः युक्तिसाम्यात् । सूत्रतात्पर्यार्थमाह । एवमिति । एवमुन्मागाभिमुखेन हिंसादिगतेन वितर्कज्वरं ज्वलितेन बाध्यमाना योगी वितर्कविरोधिज्ञानविषयतया वितर्कप्रतिपक्षान् दुःखादिफलकत्वादीन् भा
|
* ननु इत्यस्य स्थाने 'तत्र' इति युक्तत्तरः पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org