________________
योगवार्तिकम् ।
१५९
ज्ञानस्य वृत्तिरूपस्योपत्तिरूपातिशयेन मनः कारणं संभवति उपादानत्या. दित्यर्थः । प्राप्तिकारणं च नोत्पत्ता साक्षात्कारणं किं तु प्रतिबन्धनित्तिद्वारेति । घटादिषु दण्डादीनि च पूर्वाताप्तिकारणमध्यएव प्रवेशनीयानि, उत्पत्तिकारणत्वंमुपादानकारणत्वमिति । स्थितीति । भोगाप. बर्गरूपं पुरुषार्थसामान्यं मनसः स्थितिरूपातिशयेन कारणं भवति पुरुषार्थसमाप्ती मनसः स्वयमेव लयादित्यर्थः । अत्र प्राधान्येनैव मन उदाहृतं पुरुषार्थस्य सर्वभोग्यानामेव स्थितिहेतुत्वादिति । अभिव्यक्तीति । आलो. करूपज्ञानं च रूपस्याभिक्तिरूपातिशयेन कारणमित्यर्थः। अभिव्यक्तिश्च बुद्धित्तिः पौरुषेयबोधश्च तत्र बुद्धिवृत्ती आलोकः कारणं पौरुषेयबोधे च रूपज्ञानं बुद्धित्तिरूपमिति विभागः । विकारकारणमिति । एकायस्य मनसो विषयान्तरं स्वगोचररागादिविकाररूपातिशयेन कारणं भवतीत्यर्थः । प्रत्ययकारणमिति । प्रत्ययः संप्रत्ययः प्रामायनिश्चय इति यावत्, तथा ध पर्वते वहिरस्तीति शब्दादिना यग्निज्ञानं तस्य संप्रत्ययकारणं पर्वते धूमदर्शनमित्यर्थः । यथाश्रुतेग्निज्ञानस्येत्यत्र ज्ञानशब्दवैयात् । आनुमानिकज्ञानस्यापि अभिव्यक्तिमध्यएव प्रवेशाच्च । प्राप्तिकारणमिति । प्राप्तिः प्राप्तिरित्येक एवार्थः, एतयाख्यातम् । वियोगेति। एतदपि व्याख्यातम् । ननु वियोगकारणे कारणव्यवहार एव नास्तीति चेत्र। मशकायं धम इत्यादि. व्यवहारदर्शनात । कर्मकार्ययोरेकार्थतयाऽशेषधातुकर्मणामेव कार्यवावेति । अन्यत्वकारणमिति । रूपभेदकारणमित्यर्थः । ननु विकारमारणादस्य को भेद इति चेत, उच्यते । सुवर्णादेः कटकादिरूपतात्यागेन सुबहलाविरूपतायां यत्कारणं तत्सुवर्णार्विकारकारणमुच्यते तदेव च कारणं फटकारन्यत्वकारणमुच्यते कटकादिविनाशपर्वकमन्येषां कुण्डलादीनामस्पादनात अतः कार्यभेदेनैकस्यैव वस्तुनो द्विधाकारणमिति । सुवर्णस्येति । सुवर्णपिण्डारित्यर्थः । सुवर्णस्य सर्वविकारानुगतत्वेन सुवान्यत्वाकारणत्वात् । अतोस्य विकारकारणात भेदात सुवर्णपिण्डं कुण्डलं करोति इत्यादिप्रत्ययश्चास्यां कारणतायां प्रमाणमिति । बाझामन्यस्व. | कारणमुदाहृत्यान्तरमण्यन्यस्वकारणामुदाहरति । एवमेकस्यति । स्त्रीप्रत्य.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org