________________
L
योगवार्तिकम् ।
नसमाप्यादिरूपा चतुष्टयो प्रज्ञायाः प्रज्ञाख्यतस्त्वामनिमितात् पुंसां का मुक्तिः कार्याद्विमुक्तिः कर्तव्यसमाप्तिः जीवन्मुक्तिरित्यर्थः । इयं बरवेरा रूपा चित्तनाशस्यादभूमिकारूपा । चित्सेति । चिसाद्विमुक्तिः चित्तवि मुक्तिः परममुक्तिः सापि प्रान्तभूमिप्रज्ञायाः विषयः त्रिविधा भवति । चित्तविमुक्तिस्तु स्वयमेव भवति न तत्र साधनापेतेत्याशयेन पृथगुपन्यासः । तचाव्यां चित्तविमुक्तिमाह । चरिताधिकारा बुद्धिरिति । समाप्तभोगापवर्ग भवति बुद्धिरित्यर्थः । इयं परवैराग्यरूपा चित्तनाशस्यादाभूमिकारूपा । द्वितीयामाह । गुणा रति । बुद्धेर्गुणाः संसारसुखदुःखादयः स्वकारणे सत्त्वादित्रिगुणमयप्रकृतौ लीयमानास्तेन चित्तेन सहात्यन्तलयं गच्छन्ति । तत्र दृष्टान्तो गिरीति । गिरिशिखरकूटात् च्युताः शिलावावस्थातुमत्तमा इत्यर्थः । एषा च लिङ्गशरीरस्य विनश्यदवस्था द्वितीयभूमिका । तृतीयामाह । न चैषामिति । न चैषां संस्कारसुखादीनां पुनरुद्रबोस्ति पुरुषार्थसमाप्त्या प्रयोजनाभावात् इत्यत एतस्यामवस्थायां पुरुषो बुझादिगुण संबन्धविशेषशून्यः स्वरूपमात्र ज्योतिः निर्विषयकचिज्ज्योतिस्वरूपो ऽमल औपाधिकतमोमालिन्यरहितः केवली केवलेषु मुक्तेष्वविभागी भवतीत्यर्थः । इयं चात्यन्तिकलयनिष्पत्तिरूपा विदेहकैवल्यस्य वरमभूमिका इमां त्रिविधां चित्तभूमिं भाविनीमेव जीवन्मुक्तदशायां विशुद्धचित्तो योगी साक्षात्करोतीति बोध्यम् । तदेवं सप्तविषयत्वात्सप्तप्रकारा प्रज्ञा व्याख्याता । इदानीं सूत्रतात्पर्यार्थमाच । एतां सप्तविधामिति । प्रज्ञाबानित्यनुस्वा प्रज्ञामनुपश्यत्रिति निरभिमानताप्रतिपादनायेोक्तं, बुद्धि नृसिं प्रज्ञां सातिभावेनैव जीवन्मुक्तः पश्यति न स्वभिमन्यतइत्याशयः । कुशलः कल्याणो ऽकल्याणबुद्धि पत्नी परित्यागादिति । ज्ञानिनो जीवन्मुतस्य लक्षणं सूत्रेणोक्तं तत्प्रसङ्गात्स्वयं परममुक्तस्य ततो विशेषमाह । प्रतिप्रसव इति । चित्तस्यान्यन्तं लयेपि कुशल इत्येव भवति नाथ दुःखादिभिः सत्वादिभिश्च कुशल गुणे रस्यन्त वियोगादित्यर्थः । एवकारेण जीवन्मुक्तदशायामपि बाधितमकुशलं तिष्ठतीत्युक्तम् । अल एवं वाख्यायतइत्यनेन जीवन्मुक्तावस्यायां मां कुशलत्वं व्याख्यायाच भवतीत्यनेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org