________________
योगवार्तिकम् ।
१५५ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७ ॥ तस्य विवेकख्यातिरूपहानापायस्य प्रान्तभूमिकारूपिणी प्रज्ञा सप्तधेत्यर्थः । तदेतद्याचष्टे । तस्येतीति । तच्छब्दोक्तहानोपायस्य स्वरूपाख्यानं प्रत्युः दितख्यातेरिति । अन्यथा तस्येतिपुल्लिङ्गानुपपत्तेः । प्रत्याबायः परामशः । न चात्र प्रत्युत्पवख्यातेः पुरुषस्य परामर्श इत्यर्थः संभवति पुरुषस्य पूर्वसूत्रेष्वप्रस्तुतत्वात् । सप्तधेत्येतद्याख्यातुं ग्रहाति।सप्तधेतीति । अशुद्धी ति। अशुद्धिविपर्ययाख्याऽविद्या तत्कार्यपापादिकं चोत्तरसूत्रभाण्यात सैवा. धरणरूपो मलस्तदवगमाच्चित्तस्य प्रत्ययान्तराणां विवेकख्यात्यन्येषामनुत्यादे सति परवैराग्यजाविरोधयोगादुत्थानदशायां सप्ताकारा प्रज्ञा विकिनो निष्यत्रज्ञानस्य लिङ्गं भवतीत्यर्थः । एवकारोयोगव्यवच्छेदे प्रकारन्यनता नास्तीत्यर्थः। एकस्या एव प्रज्ञायाः सप्तप्रकारत्वमुदाहरति । तायेत्यादि. ना । प्रथम प्रकारमाह । परिजातमिति । परिजातं साक्षात्कृतं मुमुद भियं नास्यावशिष्टं पुनर्जयमस्तीत्यर्थः । द्वितीयं प्रकारमाह । क्षीणा इति । ततश्च हेयहेतवो ऽविद्याकामकादयो विवेकसातात्कारण मम तीणा इत्यादिरर्थः । तृतीयं प्रकारमाह । साक्षात्कृतमिति । ततश्चाविद्यादितयादुत्पनेन निरोधसमाधिना हेतुना व्युत्थानकाले दुःखहानरूपी भाविमोतो मया साक्षात्कृतः देहपातानन्तरमेतादृशो मे मोतो भविते. ति सजातीयसाक्षात्कार एव सजातीयान्तरसाक्षात्कारविनाशे परिचितः । असंप्रज्ञातयोगदृष्टान्तेन कैवल्यमपि दृष्टप्रामिति फलितार्थः । यथाश्रते निरोधसमाधी हानसाक्षात्कारानुपपत्तिवृत्त्यभावादिति असंप्रजातकाली. नश्च दुःखाभावो योग्यानुपलब्ध्या ध्युत्थाने सातात्क्रियते, यदि संप्र. ज्ञातेपि दुःखं स्यात् तदानुभूयेत ततश्च सुप्तोत्थानइव व्युत्थाने स्मयतेति। अथ वा निरोधसमाधिना निष्पाद हानं मोक्षो हानगोचरसंप्रजातेन सा. तात्रतमित्यर्थः । चतुर्थ प्रकारमाह । भावितइति । ततश्च फलनियस्या विवेकख्यातिरूपो हानोपायो भावितो निष्पादितः फलनिष्पत्यैव साध. नस्य सिरिति । वस्तुतस्तु भावित इत्यादिप्रकारस्य द्वितीयस्थलएव पाठ पाञ्जस्येन क्रमोपपत्तेः । एषति । एमा प्रान्तभूमिप्रज्ञाया विषयो हेयज्ञा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org