________________
१५४
योगवार्तिकम् । तदृशेरिति । तद्वानं गुणैः बुद्धिगुणैः दुःखाभिः पुनरसंयोगः प्रतिबिम्ब रूमेणासंबन्ध इत्यर्थः। स एव च दुःखभोर्गानतिरूपः स्वतःपुरुषार्थरूप इति । भावः। सूत्रस्य फलितार्थमाह। दुःखेति हानमित्यन्तेन । व्याख्याते । त्यशब्दार्थ सदा द्रष्टुः स्वरुपेवस्थानमिति गतसूत्रं प्रमाणति । तदेति ।। तदा दुःखनिवृत्ती । अस्य च हानव्यहस्य चतुर्थपाटे विस्तरो भविष्यती त्वच दिङ्मात्रेण स उक्तः । अतः परं हानोपायव्यहश्चतुर्थपादस्यापि कि यत्पर्यन्तं वाच्यस्तत्र चतुर्थव्यहप्रतिपादनसूत्रमवतारयति । अथेति । द्विसंयोगनित्तिरेव सातादःखहाने कारणं विधेकख्यातिस्तु बुद्धिसंयो. गहेत्वविद्यानिवर्तकत्वेन परम्परयेति प्राप्तिशब्देन सूचितम् ॥ . .
विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥
साक्षात्कारनिष्ठारूपत्वलाभायाविप्नति विशेषणम् । तत्राविश्वशब्दात् कथमेतल्लभ्यते इत्याकाकायामाह । प्लबते। मिथ्याज्ञानसंस्कारव. शात मिथ्याज्ञानेनान्तरान्तराभिभूयतइत्यर्थः । यति। यदा तु साक्षात्कारदशायां सूत्ममिथ्याजानमनागतावस्यं दग्धबीजतुल्यावस्यं तस्य विव. रणं बन्ध्यप्रसवं बन्ध्यप्रसवसामयं भवति तदा विधतक्लेशाख्यधलेबुदि. सत्वस्यात एव परवैशारदो वैलतण्ये अस्यैव विवरणं परस्यां वशीकार. संज्ञायां ‘परमाणु परममहत्वान्तास्य वशीकार' इति सूत्रोक्तायामिच्छाऽप्रति. घातरूपायां वर्तमानस्य विवेकख्यातिप्रवाहो निर्मला मिथ्याज्ञानाकलुषितो भति अतः सा विवेकख्यातिरविप्लवोच्यते । सा परमसाक्षात्काररूपिणी हानोपाय इत्यर्थः । केन द्वारेण हानोपाय इत्याकाङ्कायामाह । तत दति । ततो विवेकख्यातेः कारणात मिथ्याज्ञानस्य सूत्मरूपस्य दग्धबीनताप्राप्तिः । ततश्च पुनरप्रसव इति कृत्वा एष विवेकख्यातिरूपश्चित्तनिशादिरूपमोत्तस्य पन्थाः, अस्यविवरणं हानोपाय इत्यर्थः । नन्वेवं ज्ञानादेव दुःखहानाख्यमोतवचनात असंप्रजातयोगस्य किं प्रयोजनमिति चेत्र । परवैराग्यजासंप्रज्ञातयोगस्याप्यत्र ज्ञानद्वारतया मोक्षहेतुत्वाशयादिति । तस्या विवेकख्यातेरविनवायनिष्ठाया लक्षणमाह ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org