________________
योगवार्तिकम् ।
लरामादिरूपेणाविर्भवति स वो युष्मान् शिष्यान् पालयेत् शास्त्रार्थग्रहणादिप्रतिबन्धं निवारयत्वित्यर्थः । शेषं सुगमम् ॥ १ ॥ अध्यात्मये । गाधिगमेन मत्वा देवं धीरो हर्षशोको जहाति" "यतो निर्विवयस्यास्य मनसो मुक्तिरिष्यते । अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा " तावदेव निरोद्धव्यं यावद्धदि गतं क्षयम् । एतद् ज्ञानं च ध्यानं च शेषोऽन्यो यन्यविस्तर" इत्यादिश्रुतिषु, "मुक्तियोगात्तथा योगः सम्यगज्ञानान्महीयते । तपस्वभ्योऽधिको योगी ज्ञानिभ्यो ऽपि मत्तोऽधिक” इत्यादिस्मृतिषु च योगो मोक्षहेतुतया विहितः, तत्र येोगः किं स्वरूपः किमुपायः केन वा द्वारेण ज्ञानमोक्षयोः कारणमित्यादिकं मुमुक्षूणां विविदित्सितं भवति, ब्रह्ममीमांसासांख्यादिषु च ज्ञानमेव विचारितं बाहुल्येन ज्ञानसाधनमात्रस्तु योगः सङ्क्षेपतः, ज्ञानजन्ययोगस्तु सङ्क्षेपता ऽपि तेषु नेोक्तोऽतिविस्तरेण द्विविधं योगं प्रतिपिपादयिषुर्भगवान् पतअञ्जलिः शिष्यावधानायादौ योगानुशासनं शास्त्रमारभ्यतया प्रतिज्ञातवान् ॥ अथ योगानुशासनम् ॥ १ ॥
तदिदं समयं शास्त्रं सर्वलोकहिताय भगवान् बादसूत्रमारभ्य रायणो व्याचष्टे । अथेत्ययमधिकारार्थ इत्यादिना । अधिकारशब्दो योगरूठतया आरम्भणएव मुख्य इति शास्त्रस्याधिकार्यत्वं मुख्यमेवास्ति । यत्र चार्थस्याधिकार्यत्वमुच्यते यथा श्रथैष ज्योतिरित्यादी तत्राधिकार्यशास्त्रविषयतया गौणं तदित्याशयः । एतेन शास्त्रस्यानधिकार्यत्वमनिरूप्यत्वादित्यपास्तं प्रकृतभाष्यविरोधादिति । प्रश्नादार्थकत्वमथशब्दस्य किं कुत्रापि नास्तीत्याशङ्कानिरासाय क्तमर्यामिति। अधिकारार्थोऽधिकारवाचक इत्यर्थः। अथशब्दस्य चोच्चारणमात्रेण मङ्गलत्वमपि बोध्यम् । शिष्टस्य शासनमनुशासनं तेन शास्त्रस्य गुरु मूलकतथा सूत्रकारेण प्रामाण्यं दर्शितं ""हरण्यगर्भे योगस्य वक्ता नान्यः पुरातन" इति योगियाज्ञवल्क्येन हिरएयगर्भस्यादिगुरुत्वबोधनादिति । सूत्रवाक्यार्थमुपसंहरति, योगस्यानुशासनं शास्त्रमधिकृतं वेदितव्यमिति । शिष्यरिति शेषः । वेदितव्यमिति पूरणेन सूत्रस्य शिष्यावधानार्थकत्वं सूचितं येोगस्य च फलं सूत्रभाष्ययोः स्याने स्याने
Jain Education International
.
For Personal & Private Use Only
www.jainelibrary.org