SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ योगवार्तिकम् । वारब्धवन्तावपि च तन्मुद्रणं बहुमूल्यतया तत्पत्रयहणासमर्थैरसिकजनैर्बहुषु पण्डितपत्रेष्वंशतो मुद्रितमेतत्पुस्तकमभ्यास योग्यमिति मन्यमानैरन्यैश्च बहुभिर्जनैः पृथङ् मुद्रणाय समभ्यर्थतावावां पृथक् तन्मुद्रणमारभाव | प्रार्थयावहे चादौ श्रीजगदीश्वरमावयोरिष्टसाधनेन परिश्रमं सफलीकर्तुं विदुषश्चास्मत्प्रमादतो यत्र कत्रापि पतितानि स्खलितानि ना बोधयितुम् ॥ काशीस्यराजकीयप्रधानपाठशालायां १ जानुअरी १८८३ ईस्वी । सांख्ययोगाध्यापकस्तात्याशास्त्र्यापरनामा पटवर्धनोपाव्हो- रामकृष्णशास्त्री | प्राङ्गलभागे संस्कृताध्यापकः केशवशास्त्री च । ॥ श्रीगणेशाय नमः ॥ ॥ श्रीमद्रामकृष्णाभ्यां नमः ॥ यश्चिन्माचरसेोऽपि नित्यविमलेापाधेर्गुणैरीश्वरो हेयैः क्लेशमुखैर्गुणैर्विरहितो मुक्तः सदा निर्गुणः । सो ऽस्मान् बुद्धिगुणैः स्वयं निगडितान् स्वांशान् कृपासागरो दीनान्मोचयतु प्रभुर्गुणमयं पाशं दहन लीलया ॥ १ ॥ श्रीपातञ्जलभाष्यदुग्धजलधिर्विज्ञानरत्नाकरो 119091 वेदव्यासमुनीन्द्रबुद्धिखनिता योगीन्द्र पेयामृतः । भूदेवैरमृतं तदच मथितुं विज्ञानविज्ञेरिह श्रीमद्वार्त्तिकमन्दरो गुरुतरो मन्यानदण्डेो ऽर्प्यते ॥ २ ॥ सर्ववेदार्थसारो ऽच वेदव्यासेन भाषितः । योगभाष्यमिषेणात। मुमुक्षूणामिदं गतिः ॥ ३ ॥ गङ्गाद्याः सरितो यद्वदब्धेरंशेषु संस्थिताः । सांख्यादिदर्शनान्येवमस्यैवांशेषु कृत्स्नशः ॥ ४ ॥ Jain Education International निर्विघ्नयन्यसमाप्तये योगप्रवर्त्तकमनन्तमीश्वरं स्मरन् शिष्याणां शास्त्रग्रहणानुष्ठानादावप्यप्रतिबन्धं तत एव प्रार्थयते । यस्त्यत्वेति । यः स्वस्याद्व्यरूपं शेषाख्यं त्यक्त्वा स्वांशैस्ततो विभक्तो भूत्वा लोकानुग्रहार्थं ब For Personal & Private Use Only www.jainelibrary.org
SR No.004031
Book TitleYogvarttikam
Original Sutra AuthorN/A
AuthorVigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
PublisherVigyanbhikshu Ramkrushna Shastri Keshav Shastri
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy