________________
योगवार्तिकम् ।
१५
वृत्तीयविकल्पस्थस्य शब्दादिवृत्त्यनुत्पादस्य त्यागादस्य स्तो, मेहः । प्रधानस्य दर्शनशक्ती श्रुति प्रमाणात । प्रधानस्येति । काललु. सशाखास्थेयं श्रुतिः । सप्तमं विकल्पमाह । सर्वबोधोयादिनाऽवभासतरत्यन्तेन । सर्वबोधे समर्थाऽपि पुरुषः प्रधानप्रवृत्तेः पाक न पश्यति इत्येक मदर्शनं पुरुषनिष्ठमपरं च सर्वकार्याणां करणउत्पादने समय स्वक्ष्मयोग्यमपि दृश्यं प्रधानं तदा प्राक प्रधानप्रवृत्तेः पुरुषेण न दृश्यतति दृश्यनिष्ठमदर्शनमित्येवमुभयस्याप्यदर्शनं धर्म इत्येकाहुरित्यर्थः । एत. देवात्रादर्शनमिति शेषः । ननु जडानामदर्शनात्मकत्वात् कथं तेषामदशनं धर्मः स्यात अभावस्याधिकरणस्वरूपत्वात अभिचारेण लाघवादे. कतासिद्धेश्च कथं वा दृशिस्वरूपस्य पुरुषस्यादर्शनं घटते प्रकाशरूपस्याप्रकाशरूपत्वासंभवात इत्याशङ्का समाधत्ते । तदमिति । तत्रादर्शनदुयमध्ये इदमेकमदर्शनं दृश्यस्वरूपभूतमपि दृश्यधर्मत्वेन विशिष्टं भवति संत्र हेतुः पुरुषप्रत्ययापेक्षमिति । पुरुषप्रत्ययं बोधमपेत्य तदविषयतयेति यावत् । तथेति । तथा पुरुषस्य निर्धर्मत्वात सदा प्रकाशरूपत्वात चानालभूतमप्यदर्शनं पुरुषधर्मत्वेनैव लौकिकबुद्ध्यावभासते तत्र हेतुः दृश्यप्रत्ययापेक्षमिति । दृश्यप्रत्ययमपेक्ष्य दृश्यगोचरप्रत्ययाभावेनेति यावत् । अष्ट. भविकल्पमाह। दर्शनज्ञामिति । ज्ञानं वासनारूपं तस्यापि दृश्यसंयोग. हेतुत्वात न तु भोगापवर्गरूपमनागतावस्यं दर्शनमत्रोक्तम् अर्थवत्तया. पोनरुत्यादिति । उपसंहरति । इत्येतइति । शास्त्रेवेते ऽज्ञानभेदास्ता. निकैरुच्यन्तइत्यर्थः । संयोगभेदेन सर्वेषामेवादर्शनानां हेतुत्वं सिद्धान्तबवेव संयोगविशेषत्वदर्शनविशेषपरतयोत्तरसूत्रमवतारयति । तत्र विकखेति । तत्रादर्शने विकल्पबहुत्वं भेदबाहुल्यमेतत्पुरुषसामान्यस्य गुणसा. मान्यस्य च पुरुषार्थहेतुसंयोगसामान्य प्रति कारणतायां बोध्यम् । यस्तु प्रत्येकवेतनस्य तत्तच्चेतनस्य स्वबुद्धिसंयोगो हेयहेतुः स्वस्वामीत्यादिप्रत. तसूत्रेणोक्तः तस्य हेतुरविद्या चतुर्थविकल्परूपमदर्शनमेवेति सूत्रेण सहा
ब्रयः । प्रत्यक्चेतनस्येतिपाठे स्वस्वबुद्धयनुगमशीलचेतनस्येत्यर्थः । अयं |ः । अविद्यालयोत्तरमपि जीवन्मुक्तस्य भोगार्थ विषयरूपेण परिणतैर्गुणैः
LABE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org