________________
१५०
arratर्तिकम् ।
मित्यर्थः । चतुर्थ विकल्पमाह । प्रथाविद्येति । पञ्चपर्व अविद्या प्रलयकाले स्वचित्तेन सह गुणेषु लीना वासनारूपेण स्वाश्रयचित्तस्योत्पत्तिबीजमि. त्यर्थः । तथा चाविद्यावासनैधादर्शनमिति । अयमेव पक्षः सिद्धान्तो भवि ष्यति । पञ्चमं विकल्पमाह । किं स्थितीति । प्रधाननिष्ठस्य साम्यपरिणामहेतेाः स्थितिसंस्कारस्य तये सति गतिसंस्कारस्य महदादिरूपविसदृशपरिणाम हेतोरभिव्यक्तिरित्यर्थः । तथैव हि प्रकृतितोभद्वारा पुंप्रकृत्योः संयोगो जन्यते इति। तदुभयसंस्कारसद्भावे मतान्तरं प्रमाणयति । यत्रेदमिति । स्थित्यैगत्यै इति तादर्थे चतुर्थे। एवकारौ च तयोः पश्चादध्याहार्येौ स्थित्यैवेतिपाठे तु विशेषणे तृतीया इति । तथा च प्रधानं चेत् स्थितिमात्रेण वर्त्तेत तदा विकाराजनकत्वात्र प्रधानं स्यात् मूलकारणत्वं हि प्रधानत्वमिति । तथा गतिमात्रेण चेद्वर्त्तेत तदा महदादीनामपि प्रकृतिवंदेव नित्यत्वापत्त्या किं कस्य मूलं स्यादिति न व्यवहारः संभवत्यत उभयथैव स्थितिगतिभ्यामेव प्रधानस्यावस्थानं प्रधानव्यवहारं लभते कार्यतया न पुनरन्यथेत्यर्थः । न केवलं मूलकारणएवायं स्थितिगत्याः कालभेदेन निर्णायको विचारः किं तु कल्पितेषु विकाररूपेषु कारणभेदेषु महदादिवेव चच विचारः समान इति प्रसङ्गादवधारयति नास्तिकानां कुर्बेद्रपतावादमपाकर्तुं कारणान्तरेष्वपीति । स च चच यथा मृदादिकं यदि स्थित्यैव निवृत्यैव वर्त्तत तर्हि कदापि घटानुत्पादनेन कारणत्वहानिः । यदि गत्येव प्रवृत्त्यैव वर्त्तेत तदा मृद्घटयोर्द्वयोरेव तुल्यकालतया कार्यका रणव्यवस्थानुपपत्तिरतो विकाररूपकारणमपि स्थितिगत्युभयवदेवेति षष्ठविकल्पमाह । दर्शनशक्तिरेवेति । पुरुषायात्मानन्दर्शयितुं या क्षमता सा दर्शनशक्तिः सैव चादर्शनमित्यर्थः । इयं च शक्तिर्विवेकख्यात्यनुत्पादरूपा संयोगहेतु, स्तथाचेोक्तं सांख्यकारिकया । 'दृष्टाहमित्युपरमत्यन्ये 'ति ।
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पवन्धवदुभयेोरपि संयोगस्तत्कृतः सर्गः ॥
इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org