________________
योगवार्तिकम् ।
१४७
:
वात्मनि वच्छेदेन संसारासंसारयोः संभवात् । विवेकज्ञानापेक्षणे च तत स्वाभिमान निवृत्तेरेक्यज्ञानस्य न दृष्टद्वारा मोतहेतुत्वं स्यात् नाप्यात्मैक्यज्ञानात् सर्वात्मब्रह्मापासनं संभवति । साक्षात् कुक्कुरत्वा वादिदृष्ट्याच ब्रह्मणो निन्दाया एव प्रसङ्गात् । जडवर्गेष्वविभागलक्षणाभेदेनोपासनाया आवश्यकल्प्यत्वेन चेतनवर्गेष्वपि तथैवौचित्याच्च । तस्मात् प्रयोजनाभावात् नात्माखण्डताप्रतिपादने श्रुतिस्मृत्यास्तात्पर्यम् । अधिकं तु ब्रह्ममीमांसायामस्माभिराधुनिकवेदान्तिबुवमतखण्डनावसरे प्रतिपादितमिति दिक् । तदेवं विशेषा विशेषेत्यादिसूत्रगणेन द्रष्टुः पुरुषस्य स्वत एव दर्शनशक्तेश्व बुद्धेः कारणरूपेण नित्यत्वे सिद्धे तयोः संयोगः प्रवाहरूपेणानादिरिति शास्त्रेषु व्याख्यातमुपपचमित्याह । अतश्चेति । विनाशित्वेपि भावरुषाणां गुणानामनादित्वं न घटेत ततश्च तत्कार्यबुद्धेः ततश्च बुद्धिपुरुषसंयोगस्येति भावः । बुद्धिपुरुषसंयोगस्य प्रवाहरूपेणानादित्वे पञ्चशिखाचार्यसं वादमाह । तथा चोक्तमिति । धर्मिणां गुणानां पुरुषैः सहानादिसंयोगादिति तु गुणनित्यत्वं विना धर्मसामान्यानां बुझादीनां संयोगानादित्वं न घटतइति प्रतिपादनाय प्रदर्शितम् । तदेवं प्रकाशप्रवृत्तीत्यादिसत्रेः पञ्चविंशतितत्त्वान्यत्र संचेपतो विवेकेनेोक्तानि विस्तरस्तु सांख्यदर्शने द्रष्टव्यः । प्रकृतिपुरुषविवेकस्यैव मुख्यतस्तत्र प्रतिपादनात् अत्र योगस्येवेति । द्रष्टृदृश्ययेाः स्वरूपमुक्तम् इदानीं तत्संयोगस्य स्वरूपप्रदर्शकं सूत्रमुत्थापयति । संयोगस्वरूपेति । द्रष्टृदृश्ययोः संयोगसामान्यं न हेवहेतुः प्रलयमोक्षादिसाधारण्यात् अतः संयोगगतविशेषावधारणायेदं सूत्रं प्रवृत्यर्थः ।
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३ ॥
स्वशक्तिदृश्यं भोग्यतायेोग्यत्वात् । स्वामिशक्तिद्रष्टा भोक्तयोग्य त्वात् तयेोः स्वरूपोपलब्धा हेतुर्यः संयोगविशेषः स एव द्रष्ट दृश्य संयोगोत्र हेयहेतुरुक्त इत्यर्थः । विभुना द्रष्ट दृश्य संयोगसामान्यस्य सार्वकालिकत्वेन याहेतुत्वादिति भावः । स च संयोगविशेषो बुद्धिद्वारकः दृश्यबुद्धिसत्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org