________________
-
१४६
योगवार्तिकम् । त्यैश्वर्यादिसिद्धान्तहानिरिति पूर्वः पक्षः । अत्र सिद्धान्तमाह। न तु विक श्यतीति । पृच्छति । कस्मादिति । अत्र प्रत्युत्तरं सूत्रं पठति। कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात ॥ २२ ॥
व्याचष्टे । कृतार्थमिति । बया कृतः समापितोर्यो यस्येति कृता. र्थमेकं कं चिन्मक्तपुरुषं प्रति गुणादिकं नष्टं प्रयोजनाकरणात राज्ञो राज्यवत्रष्टमपि सामान्यतो न नष्टं तस्मिन् कृतार्थ अन्यपुरुषे च तस्य साधारणत्वादित्यर्थः । योजितं सत्रं तात्पर्यतो व्याचष्टे । कुशलमित्यादिना रूपमितीत्यन्तेन। कुशलं कल्याणमुक्तम् । अकृतार्थी येनेत्यकृतार्थ, शेषं व्याख्यातप्रायम् । सायं सूत्रार्थः श्रुत्याप्यनुएहीतो, यथा
अजामेकां लोहितशुलकृष्णां बहीः प्रजाः सृजमानां सरूपाः । अनो झेको जुषमाणानुशेते जहात्येनां भुक्तभोगामजोन्यः ॥
दति । तदनेन सूत्रेण प्रतिनित्यत्वं पुरुषबहुत्वं च प्रतिपादितम् । तथा पुरुषभेदात प्रकृतेर्बहुत्वं नास्तीत्येवंरूपं प्रकृतरेकत्वं च प्रतिपादितं विज्ञानवादादिनिरासायति । नन्वेवं 'यथा घटीकुम्भकमण्डलुस्थमाकाशमेकं बहुधा हि भिवम् । तथा सुबाहुः स च काशिपोहमन्ये च देहेषु शरीरभेदै. रित्येवंविधश्रुतिस्मृतिशतोक्तं सर्वात्मनामैक्यं विरुद्धमिति चेत्र । तादृशवा क्यैः प्रकरणभेदेन क्वचिदवैधर्म्यलक्षणाभेदप्रतिपादनात । सर्वात्मनामवैधर्म्यजाने वापरिणामितया बुरादाभिमाननितितो मोक्षसिद्धः । क्वचिच्चाविभागलक्षणाभेदप्रतिपादनात् । ततश्चैकस्यैव परमात्मनो मुख्यात्मता सिंधतीति । एतच्च सर्व ब्रह्ममीमांसाभाष्ये श्रुतिभाष्यादिषु च प्रप. ञ्चितमस्माभिः । न पुनस्तादृशवाक्यानां जीवात्मपरमात्माखण्डतापरत्वं संभवति बन्धमोक्षानुपात्तरूपसत्तानुयहेण बलवद्धिर्भदग्राहकश्रुतिस्मृति शतैर्विरोधात्। 'अधिकं तु भेददर्शनात्' 'अंशो नानाव्यपदेशादिति ब्रह्ममीमांसामारभ्य सर्वदर्शनसूत्रैरतिस्फुटमात्मभेदप्रतिपादनेन भेदस्यैव अत्य. चत्वावधारणाच्च । अपि च सर्वात्मनामैश्यमात्रज्ञानाच संसारोभिमाननिधः त्तिः संभवति । एकस्मिवेवाकाशेऽवच्छेदभेदेन शब्दतदभाववत् एकस्मिो
-
-
-
--
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org