________________
१४४
योगवार्तिकम् । व प्रकाशते तदनुकारी भवति स्फटिकद्व जपासरूप इत्यर्थः । अर्थाकारत्वस्यैवार्थग्रहणरूपतायाः बुद्धिस्थले सिद्धत्वादित्यर्थः । प्रतिबिम्बरूपेण च मिथ्यासारूप्येण न पारमार्थिकासारूप्यविरोधः । यथोक्तयोः सारूप्यवै. रूप्ययोः पञ्चशिखाचार्यवाक्यं प्रमाणात । तथा चोक्तमिति । भोकृशक्तिबुद्धिवत्परिणामिनी न भवति तथा बुद्धिवस्वविषये संक्रान्ता उपरक्तापि न भवति विकारहेतुसंयोगस्यैवोपरागत्वात् बुद्धिविकारप्रतिबिम्बेनैवोपपत्तो पुरुषस्य विकारकल्पनावैयात्। आभ्यां विशेषणाभ्यां वैरूप्यं दर्शिसम् । इदानी सारूप्यं दर्शयितुं आदी बुद्देश्चिद्रपत्वमुपपादयति । परिणामिन्यर्थइति । परिणामिनि स्वस्वार्थ विषये बुद्धा प्रतिबिम्बरूपेण संक्रान्तेवोपरक्तव सती तत्तिं विषयायाकारामनुपति चेतनामिव करोति यथा सूर्यो जलेनुपतन जलं सूर्यमिव करोति तद्वत् । अनेन बुद्धेरूपं दर्शयित्वा युरुषस्य बुद्धिसारूप्यं दर्शयति । तस्याश्चेति । हिशब्दोवधा. रणे । तस्या अपि भोक्तृशक्तेजानवृत्तिानरूपा वृत्तिर्बुद्धिवृत्त्यविशिष्टैवे. स्याख्यायते इत्यन्वयः । अत्र हेतुः प्राप्तेति । उपग्रह उपरागः, उक्तरीत्या प्राप्तचैतन्योपरांगकल्याया बुद्धिवृत्तेरनुकारिणी प्रतिबिम्बोद्वाहिणी तन्माचतति जानवृत्तर्विशेषणम् । तथा च परस्परप्रतिबिम्बात द्वयोरपि चेतनत्यसुखादिपरिणामकत्वरूपं सारूमित्यर्थः । आख्यायतइत्यनन्तमिति. शब्दः पूरणीयः । तदनेन सूत्रेण जीवेश्वरसाधारण्येनैव चिन्मानत्वमुक्तम् । | तथा च श्रुतिस्मृती। 'चेतामानः प्रतिपुरुषं क्षेत्रनः' ।
ज्ञानमेव परं ब्रह्म जानं बन्धाय चेष्यते । ज्ञानात्मकमिदं विश्वं न जानाद्विदयते परम् ॥
इति । ये तु वैशेषिकादयो ज्ञानाश्रयमात्मानं मन्यते ते श्रुतिस्मृतिविरोधेनेपेक्षणीयाः । किं च लाघवात् प्रतिपुरुषमेकैकमात्रव्यक्तिनित्यज्ञानसिौ तस्याश्रयो गौरवात्न कल्प्यते जानामीतिप्रत्ययस्य संयोगसंबन्धेनैवा. पपत्तेः । यथाहीन्धनं तेजस्वीति प्रत्ययः संयोगसंबन्धेन प्रमा तथैव बुद्धा ज्ञानाख्यद्रव्यसंयोगसंबन्धेन ज्ञानवत्वप्रत्ययः प्रमैव लोकानामहमितिप्रत्यये
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org