________________
योगवार्तिकम् ।
१४३
सापेक्षं, पुरुषस्य सुखादिप्रकाशनं च व्यापार एव न भवति स्वरूपतो नित्यत्वात् । नापि सुखादिसत्त्वे तत्प्रकाशार्थ पुरुषः सहकारिणमपेक्षत. दति भावः । बुद्धद्यादेः परार्थत्वे च श्रुतिः । 'न वागरे सर्वस्य कामाय सर्व प्रियं भवत्यात्मनस्तु कामाय सर्व प्रियं भवती'त्यादि । अत्र कश्चित स्वार्थ इति साध्यस्य न परार्थ इत्यर्थमाह । तत्र । भृत्यचेतनस्यापि स्वा. मिचेतनार्थत्वदर्शनात् । परार्थत्वमेव तु परमात्रार्थत्वमिति चेत् नाचेतनत्वरूपं वैधान्तरमाह । तथा सर्वार्थति । सुखदुःखमोहात्मकांस्विगुणान् सर्वार्थान् राहुती बुद्धिरपि तदाकारतया त्रिगुणा सत्त्वादिगुणत्रय. मयीत्यनुमीयते । त्रिगुणत्वाच्च पृथिव्यादिवदचेतति सिद्धम् । गुणानां तूपद्रष्टा पुरुषो द्रष्टबुद्धिसानिध्येन बुद्धिवृत्तिप्रतिबिम्बमात्रतो गुणद्रष्टा भवति न गुणाकारपरिणामेन बुद्धिवदिति अतो न स त्रिगुण,स्ततश्चेतन इति शेषः। उपसंहरति । अत इति । अतो वैधयंत्रयात्र बुद्धिसरूपः पुरुष इत्यर्थः । एतावता शुद्ध इति व्याख्यातम् । ननु सर्वाभिमाननिवृत्त्यर्थ सामान्यत एव दृगदृश्यविवेकः प्रतिपादनीयः तत्किमिति बुद्धिपुरुषयोरेव वैषम्यं प्रतिपादयतइति चेद् न । बुद्धिरेव पुरुषस्य सातादृश्या बुढारूठतयैवान्येषां दृश्यत्वात् तस्यामेव साताभिमानः तत्संबन्धादेवान्यनाभिमानात् । मृतदेहे सुषुयवस्थप्राणे च चैतन्याभावस्य स्पष्टत्वात् । एकैकेन्द्रियघापि चैतन्योपलो इन्द्रियाणामप्यचैतन्यस्य स्पष्टत्वात् । अतो बुद्धिविवेकादेव सर्वाभिमानिवृत्तिरित्याशयेन बुद्धिवैधर्म्य मेव पुरुषेषु प्रायशः | पतिप्रायते । किं च बुद्धयतिरिक्तभ्य आत्मविवेकस्य न्यायवैशेषिकाभ्यामेष सिद्धत्वेन बुद्धितो विवेक एव सांख्ययोगयोरसाधारणं कृमिति। अत्यन्तवै. रूप्यं निराकर्तुमुत्यापर्यात। अस्तु तीति। यत इत्यस्य पूर्वणान्वयः। प्रत्ययानुपश्य इत्येतद्वाचष्टे । प्रत्ययं बौमिति । बुद्धित्तिमनुपश्यतीत्यर्थः । ननु बुद्धिद्रष्टुत्वेपि कथं नात्यन्तं बुद्धिवरूप्यं तत्राह । तमनुपश्यविति । यतस्तमनुपश्यनतः पुरुषोऽतदात्मापि परमार्थतो बुद्धासरूयोपि तत्सरूप
• चेतन्योपलव्धेरिन्द्रियाणामिति पाठान्तरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org