________________
-
१४२
योगवार्तिकम् । डेरर्थग्रहणस्यानित्यतया तस्या अर्थाकारपरिणामोनुमीयते इति, । बुद्धेः परिवामित्वं दर्शयित्वा तदभावं पुरुषे दर्शयति । सदाजातेति । सदा जाता विषयो बुद्धित्तिरूपो येन तस्य भावः सदाजाविषयत्वं, परिदीपति अनुमापयति । यदि हि पुरुषः परिणामी स्यात् तदा जाझपरिणा. मेन कदा चित्पुरुषस्य विषयो बुद्धित्तिरजातापि तिष्ठेत् ततश्च धर्तमा. नाया अपि घटादिवृत्तेरज्ञानसंभवात् घटादिकं निश्चिनोमि न वेत्यादि. संशयः स्यात् । तथा योग्यानुपलब्ध्या घटादिनानाभावनिश्चयश्च न स्यात् । अज्ञातत्तिसत्तासंभवादिति भावः । नन्वेतावता भोक्तानं परि. णामो मास्तु सुखादिपरिणामाभावस्तु कथं तेनानुमाप्यतइति चेत् । उच्यते । शब्दादिनिश्चयरूपस्य परिणामस्य बुद्धी सिझैव तत्कार्याणाम् रच्छाशतिसुखदुःखादृष्टसंस्कारादीनां बुद्धिधर्मत्वेनैव सिद्धेः । सामाना. धिकरण्यप्रत्यासत्या कार्यकारणभावे लाघवाति । ननु न पुरुषस्यापि सदाजातविषयत्वं प्रलयादौ स्वविषयस्य बुद्धिवृत्तेरदर्शनादित्याक्षिपति । फस्मादिति । समाधत्ते । नहीति । नहि पुरुषविषयो बुद्धित्तिरपि शब्दा. दिवत्स्याच्च तिष्ठेच्च । अथ वा अगृहीता गृहीता च कालभेदेन भवती. त्यर्थः । तथा च स्मर्यते।
न चिदप्रतिचित्रास्ति • दृश्याभावादृते किल । । कचिचाप्रतिबिम्बेन किलादर्शवतिष्ठते ॥
- रति। तथा च प्रलयादी वृत्त्याविषयाभावादेव तो न पश्यतीति भावः । उपसंहरति । इति सिद्धमिति । परिणामित्ववदेव परार्थत्वापरार्थत्वरूपमपि वैधयं बुद्धिपुरुषयोर्दर्शयति। किं चेति। बुद्धिः परार्था स्व. मित्रस्य भोगादिसाधनं संहत्यकारित्वात् सहकारिसापेक्षव्यापारकत्वात् । शय्यासनशरीरादिवत्, पुरुषश्च स्वार्थः स्वस्य च भोगादिसाधनम् उक्तहे. त्वभावात् यत्रैवं तवैवं यथा स एव दृष्टान्त इत्यर्थः। बुझेह व्यापारो वि. पययहणादिरिन्द्रियादिसापेतः शय्यादीनामपि शयनादिकार्य भम्यादि.
• अप्रतिबिम्बास्तीति पाठान्तरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org