________________
योगवार्तिकम् ।
१४१ वमतिबिम्बं यत्र.स पुरुष इत्यर्थः। बुद्धेःसातीति तु पर्यवसितार्थः । एनेन प्र. तिबिम्बरूपयारोपितक्रियया कल्पितं दर्शनकर्तृत्वं द्रष्टुत्वमित्यपि सूचितम्। आत्मनो ज्ञानस्वरूपत्वं च
यथा दीपः प्रकाशात्मा स्वल्यो वा यदि वा महान् । जानात्मानं तथा विद्यादात्मानं सर्वजन्तुषु ॥
इत्यादिवाक्यशतानुयहेण लाघवतीनुग्रहेण चात्मत्वादिरूपव्य. तिरेक्यादिलिङ्रनुमेयं ज्ञानाश्रयत्वकल्पने धर्मर्मिभावापन्नवस्तुयक्रल्य नागौरवात् । अहंजानामीतिप्रत्ययस्तु अहं गौर इति भ्रमशतान्तः पातितया प्रामाण्यशङ्कास्कन्दितत्वेन यथोक्तानुमानापेक्षया दुर्बल इति दिन । बुद्धिपुरुषयोविवेकप्रतिपादनाय तयोरभेदभ्रमोपपादनाय च तयोरूप्यसारूप्यप्रतिपादकतया क्रमेण शुद्धोपीत्यादिविशेषणद्वयं व्याचष्टे । स न बुद्धेः सरूपो नात्यन्तं विरूप इति । पारमार्थिकसारूप्यस्याभावः शुद्धोपीत्यादादलार्थः। प्रतिबिम्बरूपापारमार्थिकसारूप्यं च शेषदलार्थः । तथा च परिणामित्वादिरूपबुद्धिसारूप्याभाव एव शुद्धिः बुद्धित्तिसारूप्यमेव च प्रत्य. यानुपश्यत्वमित्यायातम् । सारूयाभावसारूप्ये क्रमेण प्रतिपादयति । न तादित्यादिना। कस्मादित्यस्योत्तरं परिणामिनी हि बुद्धिरिति । परिणामित्वे हेतुाताजाविषयत्वादिति । ज्ञातत्यादयुक्तं विकृणोति । तस्याश्चेति । तस्या बुद्धे,श्चो हेतौ । गवादिरिति । गोशब्दः शब्दवाची। अतो गवादिघटादिपदाभ्यां धर्मधर्मिसामान्यपरतया धर्मर्मिरूपाणामशे. पाणां बुद्धिविशेषाणां यहणम् । जातो वृत्तिव्याप्यस्तदन्यश्चाज्ञातः । दर्शयति अनुमापयतीत्यर्थः । अयं भावः । बुद्धिः परिणामिनी स्यात् तदैव कदा 'चित बुद्धिः शब्दानाकारा भवति कदा चिच्च नेत्युपपद्यते । न व पुरुषव बुद्धावपरिणामित्वेपि विषयस्य प्रतिबिम्बनमेव विषयाका. रतास्तु ततश्च प्रतिबिम्बकादाचितकत्वेन जाताजातविषयत्वमुपपोते. ति वाच्यम् । स्वमध्यानादौ विषयासाचियेन तत्प्रतिबिम्बासंभवात, शास्त्रेषु बुद्धीविषयप्रतिबिम्बवचनं तु तत्समानाकारपरिणाममात्रेणातो बु.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org