________________
१४०
योगवार्तिकम्। दि'त्युत्तरसूत्रेण व्यक्तिरूपत एकस्यैव लिङ्गशरीरस्य व्यक्तिभेदवचनात् । अयंच व्यष्टिसमष्टिभावो न वनवृक्षवत् किं तु पितापुत्रवदेव ।
तच्छरीरसमुत्पत्रैः कार्येस्तैः करणैः सह । क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः ॥
इतिमन्वादिवाक्यैर्हिरण्यगर्भस्य शरीरद्वयांशेरेवाखिलपुंसां शरीर. द्वयोत्पत्तिरिति सिद्धेः । वनवृक्षयोस्तु नैवं कार्यकारणभावोस्तीति दिक् । सूत्रान्तरमवतारयति । व्याख्यातमिति ।
द्रष्टा दृशिमाचः शुद्धोपि प्रत्ययानुपश्यः ॥ २० ॥ दृशिरत्र न गुणः किंतु प्रकाशस्वरूपं द्रव्यं जानं नैवात्मनो धर्मा न गुणो वा कथं चन । ज्ञानस्वरूप एवात्मा नित्यः सर्वगतः शिवः ॥
इत्यादिस्मृतेः । अग्न्याष्ण्यादिषु च भेदाभेदावेव । औष्णयायहणेपि चतुषानियहणात पुरुषस्तु ज्ञानग्रहणं विना न गृह्यतइति । मात्रशब्देन पूर्वसूत्रोक्तमकाक्रियादिगुणव्यात्तिः तेष्वेव च सर्वेषां शेषगुणानामन्तभावः शुद्धशब्देन च भोन्द्रयात्मकत्वव्यात्तिः । शुद्धपि बुद्धाभेदभ्रमोपपादनाय शेषविशेषणम् । अत्र च परिणामित्वपारायंचेतनत्वादीनि बुद्धेरशुद्धिः तद्राहित्यं च पुरुषस्य शुद्धिरिति भाष्ये व्यक्तीभविष्यति । प्रत्ययानुपश्यः प्रत्ययसमानाकारतापचव सन् बुद्धिवृत्तिसाक्षीत्यर्थः । -अनेन विशेषेण द्रष्टरि प्रमाणं चोक्तमिति । शुद्धोपीत्यादिभागस्य फलान्तरं च भाष्यकारो व्याख्यास्यति । दृशिमात्रशब्दार्थमाह । दृशक्तिरेवेति । प्रलयमोक्षादी जीवानां दर्शनाख्यचैतन्यफलोपधानं नास्तीति शक्तिपदोपादानम् । एवशब्दार्थमाह। विशेषणापरामृष्टेति। विशिष्यते व्यावर्त्यते द्रव्यान्तराभिरिति विशेषणानि विशेषगुणाः वैशेषकशास्त्रोक्ताः तैः कालत्रयेप्यसंबद्धा इत्यर्थः । तेन संयोगसंख्यापरिमाणादिसत्त्वेष्यतिः । द्रष्टेति लत्यपदं बुद्धिव्यावृत्ततया व्याचष्टे । स पुरुष इति । संदिन्या बुद्धेः प्रतिसंवेदी पुरुषः संवेदनमाकारवृत्तिः तस्याः प्रतिसंवेदनं प्रतिध्वनि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org