________________
१३९
योगवार्तिकम् । च प्रसिद्धान्येव तन्मात्राणि भूतानां साक्षात् कारणानि शब्दादिमत्सूक्ष्मद्रव्याणि अतस्तानि सूत्मभूतान्यपि क्वचिदुच्यन्ते । महदहकारी च मोक्ष. धर्म लक्षितौ । यथा ।
हिरण्यगर्भा भगवानेष बुद्धिरिति स्मृतः । महानिति च योगेषु विरिचिरिति चाप्युत ॥ धृतं नैकात्मकं येन कृत्वं त्रैलोक्यमात्मना । तथैव विश्वरूपत्वाद्विश्वरूप इति श्रुतः ॥ एष वै विक्रियापत्रः सृजत्यात्मानमात्मना । अहङ्कारं महातेजाः प्रजापतिमहङ्कतम् ॥
इत्यादि । अत्र चोपासनार्थ शक्तिशक्तिमदभेदेनोपाध्यानीमादिकमुपाधिमत्त्वेन तयोरुते मनुष्यपश्वादिनामरूपादिवत् । स्मृत्यन्तरेषु सांख्ययोगयोश्चाविवेकतो जडवस्तुन्येव तढावहारः । ज्ञानेश्वर्यादिरूपमहत्तत्त्वस्याभिमानरूपाहङ्कारस्य चान्तःकरणधर्मत्वादिति । प्रकृतिस्तु ज्योविंशतितत्त्वकारणानि सत्त्वादिनामकसूक्ष्मद्रव्याणि असंख्यानि गुणशब्दश्च तेषु पुरुषोपकरणत्वात् पुरुषबन्धकत्त्वाच्च प्रयुज्यते । तच्च गुणत्रयं सुखदुःखमोहधर्मकत्वात् सुखदुःखमोहात्मकमुच्यते। पुरुषाणां सर्वा. । साधकत्वाद्राजामात्यवत्प्रधानमुच्यते जगदुपादानत्वात्प्रकृतिर्जगन्मोहकस्वाच्च मायेत्युच्यते । वैशेषिकादिभिश्च स्वस्वपरिभाषया परमाखजा. नादिशब्दैश्चोच्यते इति । तदुक्तं वासिष्टे ।
नामरूपविनिर्मुक्तं यस्मिन् सतिष्ठते जगत् । तमाहुः प्रकृति के चिन्मायामेके परे त्वणन् ॥ इत्यादिनेति । एषु च त्रयोविंशतितत्त्वानि सर्गादौ स्थलसम्मशरीयरूपेण परिणमन्ते। तत्र स्थलं पञ्चभूतेभ्यः सूक्ष्मं च शेषेभ्यः तयोश्च सूक्ष्मं काष्ठवच्चैमन्याभिव्यञ्जकत्वात पुरुषस्य लिङ्गशरीरमित्युख्यते सच्चा
द्वारस्य बुद्धी प्रवेशात्सप्तदशावयवकं सांख्यशास्त्रे प्रोक्तं 'सप्तदशैकं सिमिति । अत्र एकत्वं समष्ट्यभिप्रायेणोक्तम् । 'व्यक्तिभेदः कर्मविशेषा.
-
ms--
Media
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org