SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३८ योगवार्तिकम् । न स्मृतिभिरपि प्रकृत्यादिसिद्धिरिति । अत्रोच्यते । गुणत्रयात्मिका प्रकृतिस्तावत् मूलकारणतया मैत्रेयोपनिषदि श्रूयते । यथा । 'तमो वा इदमेकमास तत्परं स्यात् तत्परेणेरितं विषमत्वं प्रयाति एतद्वै रजसो रूपं तद्रजः खल्वीरितं विषमत्वं प्रयाति एतद्वै सत्त्वस्य रूपं तत्सत्त्वमेवेरितं तमसः संप्रास्रवत् तत्सांशेोयं यश्चेतामात्रः प्रतिपुरुषं क्षेत्रज्ञः संकल्पाध्यबसायलिङ्गः प्रजापतिस्तस्य प्रोक्ता अस्यास्तनवो ब्रह्मा रुद्रो विष्णु' रित्या - दि । तथा गभौपनिषदि चतुर्विंशतितत्त्वान्यनेन क्रमेणेोक्तानि यथा । 'अष्टा प्रकृतयः षोडशविकाराः शरीर' इति । तथा प्रश्नोपनिषदि च । 'एवं ह वै तत्सर्वं परे आत्मनि संप्रतिष्ठते पृथिवी च पृथिवीमात्रा चापश्चाप मात्राश्च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा चेत्यादिना परमात्मनि सर्व त्रयोविंशतितत्त्वं तिष्ठति समुद्र नदनदीषदित्युक्तम् अतश्चतुर्विंशतितत्त्वानि प्रत्यक्षश्रुत्या स्मृत्यनुमेयश्रुत्या च सिद्धा. नि अद्वैतश्रुतिस्तु न तासां बाधिका व्यवहारपरमार्थभेदेन विषयभेदात् । व्यावहारिकाद्वैतश्रुतीनां चाविभागलक्षणाभेदपरताया एव नदीसमुद्रादिदृष्टान्तैरवगमादिति । तेषां च महदादीनां सृष्टिक्रमेोपि श्रुतौ पाठक्रमादवधार्यते । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ इत्यादिषु । यच्च तैत्तिरीयके विद्यदादिसृष्टिः श्रयते तत्र वियतः पाबुयादिसृष्टिः पूरणीया स्मृत्युत्रेय श्रुत्येकवाक्यतया छान्दोग्ये वियद्वायुपूरणवदिति । किंच सांख्योक्तसृष्टिक्रमे स्पष्टैव श्रुतिरस्ति । यथा गोपालतापनीये । 'एकमेवाद्वितीयं ब्रह्मासीत् तस्मादव्यक्तमेवाक्षरं तस्मादत्तरान्महत्] महतो वै अहङ्कारस्तस्मादेवाहङ्कारात् पञ्च तन्मात्राणि तेभ्यो भूतादीनी 'ति । वेदान्तसूत्रेपि बुझादिक्रमेणैव सृष्टिरुक्ता तत्र नवीनानां कुव्याख्या चास्माभिस्तद्वाष्यश्वापास्तेति । तदेवं सांख्यशास्त्रे प्रपञ्चितानि चतुर्विंशतितत्त्वानि अत्र संक्षेपतः सूत्रद्वयेनेोक्तानि । एतेषां च स्वरूपादिकं तत्रैव प्रदर्शितं संक्षेपतस्त्वत्राप्युच्यते । पञ्च भूतान्येकादशेन्द्रियाणि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004031
Book TitleYogvarttikam
Original Sutra AuthorN/A
AuthorVigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
PublisherVigyanbhikshu Ramkrushna Shastri Keshav Shastri
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy