________________
योगवार्तिकम् ।
१३७
वस्याभिरसतामप्युत्पत्तिः स्यात् तर्हि अविशेषात्सवं सर्वत्रेोत्पयेत तथा ऽतीतमप्युत्पद्येत । न च प्रागभावः कारणम् । अभावस्यासिद्धेः । किं चाभावस्य निमित्तकारणत्वाभ्युपगमे तस्यैवेोपादानकारणत्वमपि स्यात्, तथा च जितं शून्यवादिभिः । अथाभावस्योपादानत्वं न दृष्टमिति चेत्, तुल्यं निमित्तत्त्वेपि । अत उपादानतावत्रिमित्तत्वमपि नाभावस्य । तस्मात्कार्यजनन शक्तिरेवानागतावस्यारूपिणी कार्यरूपेण परिणमतदूति । तदनेन भाष्येण सत्कार्यवाद: प्रसाधितः । तथेत्यादाप्येवं व्याख्येयम् । महदादिभिः प्रकृत्यायनुमानप्रकारश्च सांख्यसूत्रैरुक्तो ऽस्माभिरपि तद्वाष्ये प्रपञ्चिता विस्तरभयात्तु नेह प्रस्तूयतइति । तथा चोक्तम् | पुरस्तादिति । यथा विशेषेभ्यो ऽवान्तरभेदभिन्ना विशेषा जायन्ते तथा पुरस्वादस्यैव सूत्रस्यादावुक्तमित्यर्थः । ननु कथं गुणपर्वणां चतुधी विभागः सूत्रकारेण कृतः ब्रह्माण्ड स्थावरजङ्गमरूपैः पर्वणामानन्त्यादित्याशङ्कय ब्रह्माण्डादीनां सर्वेषां विशेषकार्याणां विशेषेष्वेवान्तभावमाह । न विशेषेभ्य इति । विशेषेभ्यः परमुत्तरभावि तत्त्वान्तरं तत्त्वभेदः नास्ति प्रतो विशेषाणां तत्त्वान्तरपरिणामो नास्तीत्यर्थः । अतो ब्रह्माण्डादिकं सर्वं विशेषपर्वणैव गृहीतमिति भावः । तत्त्वत्वं च द्रव्यत्वं तत्त्वान्तरत्वं च स्वावृत्तिद्रव्यत्वसाक्षाद्याप्यजातिमत्त्वम् । पञ्चविंशतितत्त्वेषु पञ्चविंशतिजात्यनङ्गीकारे च तत्त्वान्तरत्वं स्वावृत्तिद्रव्यविभाजकोपाधिमत्त्वमिति । नन्वेवं तत्त्वभेदात्कथमन्तःकरणस्यैकत्वं तत्रतत्रोक्तं घटेतेति । उच्यते । यथा विशेषाख्यपञ्वतत्त्वात्मिकैकैव पृथिवी प्रागुत्पद्यते ततः तस्याः खननमन्यनादिना पार्थिवे जलतेजसी अभिव्यक्तमात्रे भवत एवं तत्त्वत्रयात्मक एवाद। महान् जायते पश्चाच्च तस्याहङ्कारादिर्वृत्तिभेद इति । तर्हि किं विशेषाणां परिणामा एव न सन्ति नेत्याह । तेषां त्विति । व्याख्यास्यन्तइति । सूत्रकारेणेोत्तरपादइति शेषः । स्यादेतत् । महदादिक्रमेणेोक्तः सृष्टिप्रकार आकाशादिक्रमबोधकश्रुतिविरोधाद्वेयः श्रतो तन्मात्रादयश्रवणेन ते पदार्थश्च कल्पिताः मन्वादिस्मृतयश्च सांख्यकल्पनानुवादेन धर्मेोदिपरा एव न प्रकृत्यादिपरा इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org