________________
१३६
योगवार्तिकम् । .: इत्यादिस्मृतिषु प्रकृतेर्कायोत्पत्तिवचनं कथमुपपोत तत्राह । व्यक्तिभिरेवेति । गुणायिनीभिर्गुणधर्मः कार्यव्यक्तिभिरेवातीताय पचयान्तपरि. णामवतीभिर्हेतुभिर्जन्मविनाशवन्तइव ते गुणाः प्रतीयन्ते कार्यकारणविभा. गात् न तु तेषां स्वतो जन्मविनाशौ स्त इत्यर्थः । तथा च स्वानुगतानां व्ययादिनैव गुणात्मकप्रकृतेर्व्ययादिव्यवहार इत्याशयः । परिणामस्तु प्रकृतेः, पारमार्थिकत्वे सति व्याप्यानामुत्पत्तिविनाशयोः व्यापकेषु व्यवहारे दृष्टा. न्तमाह। यथेति। दरिद्राति क्षीणो भवति। इति समः समाधिरिति । इदं समाधानं दाष्टान्तिपि समानमित्यर्थः । ननु तथापि प्रकृतॊनत्यत्वं नोपपदयते भूयश्चान्तविश्वमायानित्तिः' 'प्रकृतिःपुरुषश्चोभी लीयेते परमात्मनि' इत्यादिवाक्येभ्य इति चेत् । दत्तोत्तरत्वात कार्यविनाशेन तत्रापि तत्रिवृत्तिवचनात् । व्यापारोपरमाख्यलयस्यैव पुरुषसाहचर्येण तत्रावधारणाच्च ।
वियोजयत्यथान्यान्यं प्रधानपुरुषावुभौ । प्रधानपुंसोरनयोरेष संहार ईरितः ॥
इति कौर्मवाक्याच्च । अन्यथा न्यायानुग्रहेण बलवतीभिः प्रकृति नित्यतातिर्भािवरोधाच्च । एवमेव प्रतिपुरुषयोः पुराणेषु श्रयमाणोत्यत्तिरन्योन्यसंयोगेनाभिव्यक्तिरेव बोध्या। संयोगलक्षणोत्पत्तिः कथ्यते कर्मजा तयोरिति स्मृतः । तथा चोक्तम् ।
न घटतउद्भवः प्रतिपूरुषयोरजयोरुभययुजा भवन्त्यसुभृतो जलबुदुदवत् । त्वयि तइमे ततो विविधनामगुणैः परमे सरितइवार्णवे मधुनि लिल्युरशेषरसाः ॥
इति । इदानी प्रकृत्यादीन् स्वस्वकार्येरनुमायतुं पर्वशब्दसूचितलिङ्गादीनामविरलक्रमं दर्शयति । लिङ्गमात्रमिति । प्रत्यासत्रमव्यवहितकार्यम् । तति । तद्धि लिङ्गमानं तत्रालिङ्गेलिङ्गावस्यप्रधान व्यक्तरूपेणाविभक्तमित्यतस्ततो विविच्यते विभक्तं भवति । तत्र हेतुः क्रमेति । क्रमस्य पौर्वापर्यस्य कदाप्यनतिक्रमादित्यर्थः । यदि हि कारणे झनागता.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org