________________
योगवार्तिकम् ।
१३५ अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥
इत्यादिभिरिति । अथ वा सर्वदा सत्त्वरूपं नित्यत्वमेवाप्यत्रास्तु सर्गपि गुणसाम्यस्यात्यन्ततोनुच्छेदात् । अंशत एव वैषम्येणावरणरूपस्य | गुणसाम्यस्य सर्वदा सत्त्वात् । अन्यथा साम्यावस्थाया अत्यन्ताच्छेदे पर्व. त्त्वानुपपत्तेश्च । अनेन हि सूत्रेण । ऊध्वमूलमधःशाखम् इत्यादिगीताम् अव्यक्तमलप्रभव इत्यादिमोक्षधर्मादिकं चानुसृत्य संसाररूपो गुणवृक्ष एव चतुष्पर्वतया निरूपितः तस्य च वंशतुल्यस्य गुणवृक्षस्यावरणानां पूर्वपूर्वतत्त्वानामंशत एवोत्तरतत्त्वरूपेण परिणामो भवति समुद्रस्यांशतः फेनादिरूपतावत् न तु दधा दुग्धस्येव पूर्वपर्वतत्त्वस्य सर्वांशेन परिणाम उत्पत्रकार्यस्य कारणेन पुनरापरणार्थ तुकारणानां स्वकार्यावरकतयाऽवस्थान सिति । तस्मात्सर्गकार्लोप बहिलिङ्गावस्थावस्थानात्तस्या नित्यत्वमिति । ननु प्रकृतिमादायाष्टावेवावरणानि ब्रह्माण्डस्य अंयन्ते न तु तन्माजाण्यपीति चेव । सूक्ष्मस्थलयोरेकवविवक्षयाष्टधा प्रावरणवचनात अत एव भागवतद्वितीयस्कन्धे परब्रह्मगती पञ्चभूतानां बहिस्तन्मात्रावरणे गतिरुक्ता इन्द्रियाणि चाकारणत्वाचावरणानि तेषामुत्पत्तिस्तु तन्मात्रसमानदेशा यथा तिलसमानदेशा सूत्मतेलोपात्तरिति दिक् । इतरस्मिनधस्थात्रये त्वनित्यत्वरूपं वैधयेमाह । त्रयाणामिति । आदौ उत्पत्ती उपादानकारणत्वव्यवच्छेदार्थमाह । सर्वार्थति । अनित्या त्रिधा अवस्यतिशेषः, शेषं सुगमम् । पर्वसु नित्यानित्यत्वरूपं वैधर्म्यमुक्त्वा पार्वणां गुणानां पर्वभ्यो वैधय॑माह । गुणास्त्विति । गुणास्तु सत्त्वादयः सर्वविकारेष्वनुगता अत उत्पत्तिविनाशशून्या अनुपरिनित्या इत्यर्थः । अलिङ्गावस्था. पि हि नैवं नित्यति । ननु त्रिगुणात्मकप्रकृर्नित्यत्वे
प्रतिं पुरुषं चैव प्रविश्यात्मेच्छया हरिः । तोभयामास संप्राप्ते सर्गकाले व्ययाव्ययौ । तस्मादव्यक्तमुत्पत्रं त्रिगुणं द्विजसत्तम ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org