________________
१३४
योगवार्तिकम् । यसिद्धं सत्यत्वमिथ्यात्वविभागमविदुषामाधुनिकवेदान्तिब्रुवाणं प्रपञ्चात्यन्तासत्यत्वादिरूपाश्रयसिद्धान्ता नास्तिकमतानुसारिणो मुमुक्षुभिर्दरतः परिहरणीयाः समानन्यायेनात्यत्र सिद्धान्तानामेव ब्रह्ममीमांसासिद्धान्तत्वादिति सर्व समञ्जसम्। लिङमात्रपरिणाममुपसंहरति । एष तेषामिति। तेषां गुणानामित्यर्थः । अलिङ्गं पर्व व्याचष्टे । निःसत्तासत्तं वेति । निःसत्तासमित्युक्तो यः पदार्थः सोलिङ्गनामा गुणानां परिणामः स च साम्यावस्थानामको गुणेभ्योतिरिक्त इति तस्य गुणपरिणामत्वमुपपद्यते । तस्यां च साम्यावस्थायां प्रधानवाचिशब्दो धर्मधर्म्यभेदेन महदादिव्यात. त्यर्थमेवात्र श्रुतिस्मृत्योश्च प्रयुज्यते । परमार्थतस्तु गुणा एव तदुपतिताः प्रधानम्। भाष्ये गुणानामेव प्रधानत्वस्योक्तत्वादिति। इदानी पर्वणां गुणानां च ' परस्यरवैधयभंदी व्युत्पादनीयः तत्रादालिङ्गावस्यारूपस्य पर्वणः पर्वत्रयादणेभ्यश्च वैधम्यं प्रतिपादयति । अलिङ्गावस्थायामिति । पुरुषार्थी विषयभोगविवेकख्याती तत्कार्यो सुखदुःखाभावी च स पुरुषार्थी. नालिङ्गावस्यां प्रति हेतुः यतो ऽलिङ्गावस्थायामादौ सृष्टः प्राक पुरुषार्थता पुरुषार्थसमूहः कारणं कारणत्वाभिमतो नोत्पद्यतइत्यर्थः । दुःखनिवृत्तिव्यावर्तनाय कारणमित्युक्तम् । प्रलयकाले दुःखनिवृत्तेः कर्मक्षयादेवो. पपत्तेः प्रलयाप्रयोजनलया दुःनित्तिः प्रलयकारणं न भवतीत्याशयः । उपसंहरति । न तस्य इति । एतदुक्तं भवति । व्यतावस्थायां गुणेभ्यः शब्दायुपभोगादिरूपः पुरुषार्थो जायतेतः स तस्यामनागतावस्थः कारणं भवतु साम्यावस्थायां तु न तज्जन्यः कश्चन पुरुषार्थास्तीत्यतो नास्याः | पुरुषार्थः कारणमिति । एतावता किमित्यत आह । नासौ पुरुषार्थकतेति। नित्या व्याख्यायतइति । शास्त्रेष्विति शेषः। नित्या स्वाभाविकी अनैमित्तिः कत्वेन पर्वत्रयापेक्षया स्थिरा स्वाभाविकत्वेपि धर्मादिभिः प्रतिबन्धाव गुणानां साम्यरूपः परिणाम इति भावः । अव्यक्तावस्थायाश्च स्वाभाविकत्वं न व्यक्तावस्थापेक्षया बहुकालावस्थायित्वमेव नित्यत्वं सत्यत्वापर. नामक व्यवहारे सिद्धम्। 'धी नित्यः सुखदुःखे त्वनित्ये इत्यादिभारता. दिव्यवहारात । ईनित्यत्वं च गीतादिषक्तम् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org