________________
योगवार्तिकम् । पासीदिदं तमोभूतमप्रज्ञातमलतणम् । अप्रतळमविज्ञेयं प्रसुप्तमिव सर्वतः ॥
इत्यादिश्रुतिस्मृतिभ्य इति । नन्वेवं सविकारस्य प्रधानस्य सदसवर्मातषेधे सति प्रकृतेः सदसदात्मकताप्रतिपादकश्रुतिस्मृतिशतव्याकोपः सदसद्बाधाबाधाभ्यामिति सांख्यसूत्रविरोधश्चेति । मैवम् । तथाविधवाक्यानां व्यक्तरूपव्यावहारिकसदसत्तापरत्वात् । सांख्यसूत्रे च बाधाबाधा रूपभेदेन सार्वकालिकाविति । तदुक्तं
जगन्मयी भ्रान्तिरियं न कदापि न विद्यते । वियते न कदा चिच्च जलबद्वदवत् स्थितम् ॥
इति। भ्रान्तिरितिपारमार्थिकाममाश्रित्य ज्ञानजेययोरभेदविषक्षयोतम् । अत एव गौतमसूत्रं तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेट्टैविध्योपपत्ति'रिति। तात्त्विकमिथ्याबुद्धिरनित्यपदार्थज्ञानं च प्रधानं मिथ्याज्ञानं प्रसिमियाजानं शुक्तिरजतादिज्ञानमिति । पारमार्थिकदमलतणं च तदभावति तत्प्रकारत्वमद्विषयकतावातदुभयमपि परिणामिनित्यपदार्थबुद्धिष्वण्यस्तीति,व्या. बहारिकपारमार्थिकभेदेन सत्तादिद्वैविध्यं च विष्णुपुराणादिषु प्रसिद्ध, यथा
सदाव एषो भवते मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् । एतच्च यत्संव्यवहारभूतं तथापि चोक्तं भुवनाश्रितं तत् ॥.
इति । तृतीया च लोकसिद्धा प्रातिभासियपि सत्ता शुक्तिरजतस्वानपदार्थानां मनोमात्रपरिणामानामिति । यत्तु परमात्मचैतन्यस्यैव सत्त्वं न तु जीवचैतन्यानामपि इति घेदान्तरहस्यं 'नान्योऽतोस्ति द्रष्टा श्रोता मन्ता बोद्धे'त्यादि अतिसिद्ध तत्तु लयशून्यत्वरूपातिपारमार्थि. कसत्तामभिप्रेत्यैव बोध्यम् । प्रलये हि परमात्मनि प्रतिपुरुषयोापारोपरमरूपो लयो भवति । प्रकृतिः पुरुषश्चोभी लीयेते परमात्मनीत्यादिवा. क्येभ्यः, परमात्मा च सदा जायत्स्वरूपतया लयअन्य इति स एव परमायसन प्रकृतिपुरुषार्वाित वेदान्तमहावाक्यमर्यादा । एतेन सदसत्त्वयोर्वि. रोधादेकत्रासंभव इत्यप्यपास्तम् । व्यवहारपरमार्थभेदेन कालभेदेनावच्छेदभेदेन स्वरूपभेदेन प्रकारभेदेन च तयारविरोधादिति । तदेवं तिन्या.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org