________________
१३२
मैण । शास्त्रेषु स्वप्रादिदृष्टान्ताश्च क्षणभङ्गुरत्वपारमार्थिकासत्त्वांशेनैवेति बोध्यम् । नहि स्वप्रगन्धर्वनगरादयोप्यत्यन्तासन्तः स्वप्नादावपि सातिभास्यमानसपदार्थाभ्युपगमात् । अन्यथा 'सन्ध्ये सृष्टिराहही ति' वेदान्तसूत्रेयैव स्वप्ने सृष्टावधारणं विरुध्येत न स्वप्नादिवदिति वेदान्तसूत्रं च जायत्प्रपञ्चस्य केवलमानसत्वमेव निराकरोति । एतेन स्वप्नादिदृष्टान्तैः प्रपञ्चस्य मनामात्रत्वाभ्युपगमो नवीनवेदान्तिनामपसिद्धान्त एव । वेदान्तसूत्रे - यापि स्वप्रतुल्यत्वाभावनिर्णयात् । तस्मादययोक्तमेव प्रपञ्चस्यासत्त्वं ब्रह्म. मीमांसाया अपि सिद्धान्तः समानतन्त्र सिद्धत्वाच्चेति दिक् । कश्चित्वत्र उत्तरविशेषणे चार्थक्रियाकारित्वमेव सत्वं विवक्षितं तच्च प्रलये प्रकृतितद्विकारयोनास्तीत्याह । । तव । ईश्वरान्य पुरुषस्याप्येवमसत्तया तयावृत्त्यसंभवात् । जीवेष्वपि हि विषयप्रकाशनव्यापारोपरम एवासत्ता लयः स्वापः प्रलयेस्तीश्वर प्रकरणे श्रुतिस्मृतिषु प्रसिद्ध इति प्राधान्यस्य पारमार्थिकसदसत्त्वाभावोपपत्तये तद्विकाराणामपि पारमार्थिक्या सदसत्ते न स्त इति प्रतिपादयितुं प्रधानस्य विशेषणान्तरं निःसदसदिति । निर्गते सदसती यस्मादिति विग्रहः । निःसनिरसदिति पाठेप्ययमेवार्थः । प्रधानवृत्ति हि यद्विकारजातं तत्पारमार्थिकसन भवति परिणामित्वेन स्वधर्मेः प्रतिक्षणविनाशात् प्रयन्तयोर्व्यक्त्यवस्ययाप्यसत्त्वाच्च । 'वाचारम्भणं वि. कारों नामधेयं मृत्तिकेत्येव सत्यम्' । 'अव्यक्तादीनि भूतानि व्यक्तमध्यानि 'भारत । अव्यक्तनिधनान्येव तच का परिदेवने त्यादिश्रुतिस्मृतयश्च विका राणां नित्यतारूपं सत्वं निशकुर्वन्ति । अत्र च श्रुतौ विकाराणामादयन्तयोनीममात्रावशेषत्वेनास्थिरतयैव तदपेक्षया स्थिरत्वरूपं सत्यत्वं कार णस्य विवक्षितम् । 'नित्यो नित्यानां सत्यस्य सत्य' मिति श्रुत्यन्तरे तादृशासिद्धेः । न पुनर्विकाराणामत्यन्त तुच्छतया मृद्विकारस्य ब्रह्मविकारदृष्टातत्वानुपपत्तेः । नहि लोके मृद्विकारस्यात्यन्ततुच्छत्वं सिद्धमस्ति येन ब्रह्मकार्य प्रपञ्च तुच्छत्वे दृष्टान्तता तस्य स्यादिति । यथा प्रधानवृत्तिका - जातमत्यन्तसत्र भवति एवमत्यन्तासत्रपि न भवति अतीतानागतादिरूपैः सदा सत्रात् । 'तद्वेदं तर्ह्यव्याकृतमासीत्' ।
Jain Education International
योगवार्तिकम् ।
1
For Personal & Private Use Only
N
www.jainelibrary.org