________________
१३१
योगवार्तिकम् । पलिङ्गं तत् प्रधानाख्यमूलकारणं प्रतियन्ति प्रकृती लीयन्तइत्यन्वयः । एतेन महत्तत्वापाधिकस्य कार्यब्रह्मणोपि जगत्सृष्टिस्थितिलयहेतुत्वं प्रसझाडाख्यातम् । प्रधानस्यासङ्गत्वापपादनायाव्यक्तमिति विशेषणं, स्वयमव्यततया न परस्परव्यजकमित्यलिङ्गमित्याशयः । पुरुषात्पराभिमतशरीरादिभ्यश्च व्यावर्त्तनाय निःसत्तासत्तं विशेषणम् । निर्माते पारमार्थिक सत्ता. सत्ते यस्मादिति विग्रहः । कुटनित्यत्वादि पारमार्थिकं सत् ।
सतोस्तित्वं च नासत्ता नास्तित्वे सत्यसा कुतः । तस्मान विज्ञानमृतेस्ति किंचित व चित्कदा चिट्टिज वस्तुजातम् । यच्चान्यथात्वं द्विज याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम् ॥
इति गारुडवैष्णावादिवाक्येभ्यः सत्तासामान्याभावस्यैव पारमार्थिकसत्तात्वसिद्धेः, तच्च सत्त्वं प्रधाने नास्ति महदादाखिलविकाररूपैः प्रलयेष्वसत्त्वात् । सूक्ष्मदृष्टया तु परिणामितया प्रतिक्षणं तत्तद्धर्मरूपेणापायाच्च । तथा च श्रुतिस्मृतयः चैतन्यं चिन्मानं सत्' 'क्षणं न संतिष्ठति जीवलोकः योदयाभ्यां परिवर्त्तमान' इत्यादया इति । यथा च सत्तया वर्जितमेवासत्तयापि पारमार्थिक्या वर्जितं सत्तासामान्याभावस्यैव पारमा. र्थिकासत्त्वात् । तच्च प्रधाने नास्ति नित्यत्वादर्थक्रियाकारित्वात श्रुतिस्म. त्यनुमानसिद्धत्वाच्च । इत्यमेव च सदसनामनिर्वचनीयं त्रिगुणात्मकं मायाख्यं प्रधानमितिवेदान्तसिद्धान्तोप्यवधारणीयः ।
नासद्रपा न सद्रपा माया नैवेोभयात्मिका । सदसनामनिर्वाच्या मिथ्याभूता सनातनी ॥
इत्यादित्यपुराणादिषु मायाख्यप्रकृतेः पारमार्थिकसस्वादिरूपेणानिरूप्यत्ववचनाच्च । न तु प्रपञ्चस्यात्यन्ततुच्छता अत्यन्तविनाशिता वा वेदान्तसिद्धान्तः 'नाभावउपलब्धेः' 'भावे चोपलब्धेः' इति वेदान्तसूत्राभ्यामेवात्यन्ततुच्छताया निराकरणात्।'सत्त्वाच्चावरस्य' 'असहापदेशादितिचेच धर्मान्तरण वाक्यशेषात् वैधाच्च 'न स्वमादिवदित्यादियथाश्रुतवेदान्त. सूत्रेभ्यः प्रपञ्चस्य सदसदपताया एव सिद्धेश्च । धर्मान्तरेणातीतानागतध.
-
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org